वाचस्पत्यम्
वलय || पुंन० वल—अयन् । १ हस्तपादकटकादौ अमरः । उत्तरपदस्थः तदाकारवेष्टने यथा भूवलयम् । ३ वेष्टन- भूमौ ४ गोले च । ५ गलरोगभेदे प्रावप्र० “वलास एवा- यतमुन्नतञ्च शोथं करोत्पन्नगतिं निबार्य । तं सर्वथैवा- प्रतिकार्य्यवीर्य्यं विवर्जनीयं वलयं वदन्ति” । ६ वेलायां ७ कङ्कणे जटा० ।
शब्दकल्पद्रुमः
वलयः || पुं, (वलयवदाकृतिरस्त्यस्येति । अर्श आदित्वात् अच् ।)
अष्टादशगलरोगान्तर्गत- गलरोगविशेषः । यथा, —
“वलास एवायतमुन्नतञ्च शोथं करोत्पन्नगतिं निवार्य्य । तं सर्व्वथैवाप्रतिवार्य्य वीर्य्यं विवर्ज्जनीयं वलयं वदन्ति ॥” * ॥
अथ गलरोगाणां चिकित्सा । “कण्ठरोगेष्वसृङ्मोक्षैस्तीक्ष्णैर्नस्यादिकर्म्मभिः । चिकित्सकश्चिकित्सान्तु कुशलोऽत्र समाचरेत् ॥ क्वाथं दद्याच्च दार्व्वीत्वङ्निम्बतार्क्ष्यकलिङ्गजम् । हरीतकीकषायो वा हितो माक्षिकसंयुतः ॥ कटुकातिविषादारुपाठामुस्ताकलिङ्गकाः । गोमूत्रकथिताः पीताः कण्ठरोगविनाशनाः ॥ मृद्वीका कटुका व्योषा दार्व्वी त्वक् त्रिफला घनम् । पाठा रसाञ्जनं दूर्व्वा तेजोह्वेति सुचूर्णितम् ॥ क्षौद्रयुक्तं विधातव्यं गलरोगे महौषधम् । योगास्त्वेते त्रयः प्रोक्ता वातपित्तकफापहाः ॥ जवाग्रजं तेजवतीं सपाठां रसाञ्जनं दारु निशां सकृष्णाम् । क्षौद्रेण कुर्य्यात् गुटिकां मुखेन तां धारयेत् सर्व्वगलामयेषु ॥” इति भावप्रकाशः ॥ * ॥
वेला । कङ्कणम् । इति जटाधरः ॥ (दण्डव्यूह- विशेषः । यथा, कामन्दकीये नीतिसारे । १९ । ४५ । “सुखाख्यो वलयश्चैव दण्डभेदाः सुदुर्ज्जयः ॥”)
शब्दकल्पद्रुमः
वलयः || पुं, क्ली, (वलते आवृणोति हस्तादिक- मिति । वल् + “वलिमलितनिभ्यः कयन् ।” उणा० ४ । ९९ । इति कयन् ।)
स्वर्णादि- रचिलप्रकोष्ठाभरणम् । बाला इति भाषा । तत्पर्य्यायः । आवापकः २ परिहार्य्यः ३ कटकः ४ । इत्यमरः ॥ पारिहार्य्यः ५ शंखकः ६ । इति शब्दरत्नावली ॥ कम्बुः ७ कुण्डलम् ८ । इति जटाधरः ॥ (यथा, रामायणे । २ । ३२ । ५ । “सहेमसूत्रैर्म्मणिभिः केयूरैर्व्वलयैरपि ॥” मण्डलम् । यथा, मार्कण्डेये । २० । ४९ । “अश्रान्तः सकलं भूमेर्वलयं तुरगोत्तमः । समर्थः क्रान्तुमर्केण तवायं प्रतिपादितः ॥” अस्थिविशेषः । यथा, सुश्रुते शारीरस्थाने ५ अध्याये ॥ “कपालरुचकतरुणवलयनलकसंज्ञानि ।” “पाणिपादपार्श्वपृष्ठोदरःसु वलयानि ॥” वैद्यकोक्ताग्निकर्म्मविशेषः । यथा, सुश्रुते । १ । १२ । “तत्र रोगाधिष्ठानभेदादग्निकर्म्म चतुर्धाभिद्यते । तद्यथा वलयविन्दुलेखाप्रतिसारणानीति दहन- विशेषाः ॥” * ॥
वेष्टनम् । यथा, रघुः । १ । ३० । “सवेलावप्रवलयां परिखीकृतसागराम् । अनन्यशासनामुर्व्वीं शशासैकपुरीमिव ॥”)