संस्कृत-शब्दकोशः

वल्कद्रुम वल्कला

वल्कल

वाचस्पत्यम्

वल्कल ||‍ न० वल—कलन् कस्य नेत्त्वम् । १ त्वचे (दारचिति) वृक्षे राजनि० २ त्वचि (छाल) पुंन० अमरः । ३ शिला- वलकायां स्त्री राजनि० ।


शब्दकल्पद्रुमः

व(ब)ल्कलं || क्ली (वलते संवृणोतीति । वल + बाहुलकात् कलन् ।)
त्वचम् । इति राज- निर्घण्टः ॥ डालचिनि इति भाषा ॥


शब्दकल्पद्रुमः

व(व)ल्कलः || पुं क्ली, (वलते संवृणोतीति । वल + बाहुलकात् कलन् ।)
वृक्षत्वक् । वाकल इति भाषा । तत्पर्य्यायः । त्वक् २ बल्कम् ३ । इत्य- मरः ॥ त्वचा ४ त्वचम् ५ चोचम् ६ चोलकम् ७ शल्कम् ८ छल्लकम् ९ छल्लिः १० छल्ली ११ चोतकम् १२ । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । १५६ । २ । “तौ तु पूर्ब्बेण कालेन तपोयुक्तौ बभूवतुः । क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ ॥”)



Correction: