वाचस्पत्यम्
वल्ल || पु० वल्ल घञ् । १ गुञ्जत्रयपरिमाणे “वल्लस्त्रिगुञ्ज” लीला० २ गुञ्जाद्वये वैद्यकम् ३ सार्द्धगुञ्जामाने “गोधूमद्वितयोन्मिता तु कथिता गुञ्जा तया सार्द्धया वल्लः” राजनि० ।
वाचस्पत्यम्
वल्ल || संवरणे भ्वा० आत्म० सक० सेट् । वल्लते अवल्लिष्ट ।
शब्दकल्पद्रुमः
वल्ल || ङ संवरणे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।)
ङ, वल्लते धनं लोकः संवृणोतीत्यर्थः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वल्लः || पुं, (वल्लते संवृणोतीति । वल्ल + अच् ।)
गुञ्जात्रयपरिमाणम् । यथा, —
“वल्लस्त्रिगुञ्जो धरणञ्च तेऽष्टौ ।” इति लीलावती ॥ द्विगुञ्जा । इति वैद्यकपरिभाषा । (यथा, —
“विषटङ्कवलिम्लेच्छदन्तीबीजं क्रमाद्बहु । दन्त्यम्बुमर्द्दितं यामं रसस्त्रिपुरभैरवः ॥ वल्लं व्योषेण चार्द्रस्य रसे च सितया सह ॥” इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे ॥)
सार्द्धगुञ्जा । यथा, —
“गोधूमद्वितयोन्मिता तु कथिता गुञ्जा तया सार्द्धया वल्लो वल्लचतुष्टयेन भिषजां माषा मतस्तच्चतुः ।” इत्यादि राजनिर्घण्टः ॥