वाचस्पत्यम्
वल्लुर || न० वल्लु—उरन् । १ कुञ्जे २ मञ्जर्य्यां ३ क्षेत्रे ४ निर्जन- स्थाने ५ शाद्वले हेमच० । ६ गहने च मेदि० वल्ल—अरन् । वल्लर तत्रार्थे न० शब्दर० ।
शब्दकल्पद्रुमः
वल्लुरं || क्ली (वल्ल्यते आव्रियते लतादिनेति । वल्ल + बाहुलकात् उरच् ।)
कुञ्जम् । मञ्जरी । क्षेत्रम् । निर्जलस्थानम् । शाद्वलः । इति हेम- चन्द्रः ॥ गहनम् । इति मेदिनी । रे, २१० ॥ विश्वधररत्नावलीषु वल्लरमिति पाठः ॥