वाचस्पत्यम्
वल्लूर || त्रि० वल्ल—ऊरन् । आतपादिना १ शुष्कमांसे अमरः २ शूकरभांसे मेदि० ३ वनक्षेत्रे ४ वाहने ५ उषरभूमौ च हेमच० ।
शब्दकल्पद्रुमः
वल्लूरं || त्रि (वल्ल्यते संव्रियते इति । वल्ल + “खर्ज्जि- पिञ्जादिभ्य ऊरोलचौ ।” उणा० ४ । ९० । इति ऊरच् ।)
आतपादिना शुष्कमांसम् । इत्यमरः । २ । ६ । ६३ ॥ (तस्याभक्ष्यत्वं यथा, मनुः । ५ । १३ । “निमज्जतश्च मत्स्यादान् सौनं वल्लूरमेव च ॥” “वल्लूरं शुष्कमांसम् ।” इति तट्टीकायां कुल्लूक- भट्टः ॥)
शूकरमांसम् । इति मेदिनी । रे, २१० ॥ वनक्षेत्रम् । वाहनम् । ऊषरभूमिः । इति हेमचन्द्रः ॥