शब्दकल्पद्रुमः
वंशपत्रः || पुं, (वंशस्य पत्राणीव पत्राण्यस्य ।)
नलः । इति राजनिर्घण्टः ॥ (वंशस्य पत्रम् ।)
वंशस्य दले, क्ली ॥ (हरितालम् । यथा, —
“तालकं वंशपत्राख्यं कुष्माण्डसलिले क्षिपेत् । सप्तधा वा त्रिधा वापि दध्यम्लेन च वा पुनः ॥ शोधयित्वा पुनः शुष्कं चूर्णयेत्तण्डुलाकृति । ततः शरावके पात्रे स्थापयेत् कुशलो भिषक् ॥ वदरीपत्रकल्केन सन्धिलेपञ्च कारयेत् । अरुणाभमधःपात्रं तावज्जाला प्रदीयते ॥ स्वाङ्गशीतं समुद्धृत्य माणिक्याभो भवेद्रसः ॥” इति वैद्यकरसेन्द्रसारसंग्रहे कुष्ठाधिकारे ॥)