शब्दकल्पद्रुमः
वंशपत्रकं || क्ली (वंशपत्रमेव । स्वार्थे कन् ।)
हरितालम् । इति हेमचन्द्रः । ४ । १२४ ॥
शब्दकल्पद्रुमः
वंशपत्रकः || पुं, (वंशस्य पत्रमिवाकृतिरस्यति । इवार्थे कन् ।)
क्षुद्रमत्स्यविशेषः । इति शब्द- माला ॥ वाँशपाता माछ इति भाषा ॥ नलः । श्वेतेक्षुः । इति राजनिर्घण्टः ॥