शब्दकल्पद्रुमः
वंशपत्रपतितं || क्ली सप्तदशाक्षरपादच्छन्दो- विशेषः । यथा, —
“दिङ्मुनिवंशपत्रपतितं भ र न भ न ल गैः ॥” उदाहरणम् । “नूतनवंशपत्रपतितं रजनिजललवं पश्य मुकुन्द ! मौक्तिकमिवोत्तममरकतगम् । एष च तं चकोरनिकरः प्रपिबति मुदितो वान्तमवेत्य चन्द्रकिरणैरमृतकणमिव ॥” वंशपत्रचरितेति केचित् । वंशदलमिति शम्भौ । इति छन्दोमञ्जरी ॥