संस्कृत-शब्दकोशः

वंशपत्रपतित वंशपीत

वंशपत्री

शब्दकल्पद्रुमः

वंशपत्री || स्त्री (वंशपत्र + गौरादित्वात् ङीष् ।)
नाडीहिङ्गुः । तृणविशेषः । तत्पर्य्यायः । वंश- दला २ जीरिका ३ जीर्णपत्रिका ४ । अस्या गुणाः । सुमधुरत्वम् । शिशिरत्वम् । पित्तरक्त- दोषनाशित्वम् । रुच्यत्वम् । पशूनां दुग्धदायि- त्वञ्च । इति राजनिर्घण्टः ॥ तत्पर्य्यायगुणाः । “वंशपत्री वेणुपत्री पिण्डा हिङ्गु शिवाटिका । हिङ्गुपत्रीगुणा विज्ञैर्वंशपत्री च कीर्त्तिता ॥” इति भावप्रकाशः ॥



Correction: