संस्कृत-शब्दकोशः

वशिता वशिनी

वशित्व

वाचस्पत्यम्

वशित्व ||‍ न० वशिनो भावः त्व । १ स्वातन्त्र्ये २ ईशरय्स ऐश्वर्य्य- भेदे च । तल् । वशिताप्यत्र स्त्री ।


शब्दकल्पद्रुमः

वशित्वं || क्ली (वशिनो भावः । वशिन् + त्व ।)
आयत्तत्वम् । (यथा, षड्रत्ने । १ । “शास्त्रं सुचिन्तितमपि प्रतिचिन्तनीय- माराधितोऽपि नृपतिः परिशङ्कनीयः । अङ्के स्थितापि युवतिः परिरक्षणीया शास्त्रे नृपे च युवतौ च कुतो वशित्वम् ॥”)
शिवस्याष्टैश्वर्य्यान्तर्गतैश्वर्य्यविशेषः । यथा, —
“अनिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वञ्च वशित्वञ्च तथा कामावशायिता ॥” वशित्वं स्वातन्त्र्यं येन स्वतन्त्रश्चरति इत्यमर- टीकायां भरतः ॥



Correction: