संस्कृत-शब्दकोशः

वष वषट्कार

वषट्

वाचस्पत्यम्

वषट् ||‍ अव्य० वह—डषटि । देवोद्देश्यकहविस्त्यागे अमरः ।


शब्दकल्पद्रुमः

वषट् || व्य, देवोद्देश्यकहविस्त्यागमन्त्रः । इत्य- मरः ॥ स्वाहा श्रौषट् वौषट् वषट् स्वधा एते पञ्चशब्दा देवहविर्द्दाने वह्निमुखहुतौ वर्त्तन्ते । देवाय हविषो दानं देवहविर्द्दानं तत्र देवा इन्द्रादयः । अत्र पितरो देवता इति स्मृतेस्ते- ऽपि देवाः हविर्द्दान इत्यनेन एते मन्त्रा इति सूचितम् । इति भरतः ॥ (यथा, ऋग्वेदे । १० । ११५ । ९ । “इति त्वाग्ने वृष्टिहोत्रस्य पुत्त्रा उपस्तुतास ऋषयोऽवोचन् । तांश्च पाहि गृणतश्च सूरीन् वषड् वषडित्यूर्ध्वासो अनक्षन् नमो नम इत्यूर्द्धासो अनक्षन् ॥”)



Correction: