संस्कृत-शब्दकोशः

वष्कयिणी वसति

वस

वाचस्पत्यम्

वस ||‍ आच्छादने अदा० आ० सक० सेट् । वस्ते अवसिष्ट ।


वाचस्पत्यम्

वस ||‍ निवासे भ्वा० पर० सक० अनिट् यजा० । वसति अवात्सीत् उवास ऊसतुः उषितः उषित्वा । अधि + अनु + उप—आ + वा वसतेराधारस्य कर्मता अधिवसति वैकुण्ठ हरिः सि० कौ० अनुवसति उपवसति आवसति । उप + अभोजने तत्र नाधारस्य कर्मता “एकादश्यामुपवसेत्” इत्यादि ।


वाचस्पत्यम्

वस ||‍ वासने सुरभीकरणे अद० चु० उभ० सक० सेट् । वसयति ते अववसत् त ।


वाचस्पत्यम्

वस ||‍ स्तम्भे दिवा० पर० सक० सेट् । वस्यति इरित् अवसत् अवा- सीत् उदित् क्त्वा वेट् ।


वाचस्पत्यम्

वस ||‍ स्नेहे छेदने बधे च सक० चु० उभ० सेट् । वासयति ते अवीवसत् त । अधि + गन्धादिनासस्कारे सक० ।


शब्दकल्पद्रुमः

वस || ऐ औ निवासे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-अनिट् ।)
ऐ, उस्यात् । औ, अवात्सीत् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वस || क स्नेहच्छिदोश्च । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-अक०-सक०-च सेट् ।)
स्नेह इह प्रीतिः । क, वासयति बन्धुः । चकारात् वधे च । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वस || त् क वासे । इति कविकल्पद्रुमः ॥ (अदन्त- चुरा०-पर०-अक०-सेट् ।)
वसयति । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वस || य उ इर् स्तम्भे । इति कविकल्पद्रुमः ॥ (दिवा०-पर०-अक०-सेट् । उदित्वात् क्त्वावेट् ।)
य, वस्यति । उ, वसित्वा वस्त्वा । इर्, अवसत् अवासीत् अवसीत् । अस्मात् पुषादित्वान्नित्यं ङ, इत्यन्ये । स्तम्भ इह नम्रतारहितीभावः । यो वस्यत्यरिष्विति हलायुधः । इति दुर्गा- दासः ॥


शब्दकल्पद्रुमः

वस || ल ङ स्तृतौ । इति कविकल्पद्रुमः ॥ (अदा०- आत्म०-सक०-सेट् ।)
स्तृतिरिह आच्छादन- पूर्ब्बकधारणम् । ल ङ, वस्ते लोकः वस्त्रम् । इति दुर्गादासः ॥



Correction: