वाचस्पत्यम्
वसति(ती) || स्त्री वस—अति वा ङीप् । १ वासे २ यामिन्याम् “वसतीरुषित्वा” रघुः । ३ निकेतने मेदि० ४ स्थाने च ५ शिविरे सि० कौ० ।
शब्दकल्पद्रुमः
वसतिः || स्त्री (वस निवासे + “वहिवस्यर्त्तिभ्य- श्चित् ।” उणा० ४ । ६० । इति भावाधि- करणादौ अतिः)
। वासः । (यथा, अमरु- शतके । ११ । “धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं दीर्घोच्छ्वासमुदश्रुणा विरहिनीं बालां चिरं ध्यायता । अध्वन्येन विमुक्तकण्ठकरुणं रात्रौ तथा क्रन्दितं ग्रामीणैर्व्र जतो जनस्य वसतिर्ग्रामे निषिद्धा यथा, ॥”)
यामिनी । निकेतनम् । इति मेदिनी । ते, १५० ॥ (यथा, कुमारे । ४ । ११ । “रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः । वसतिं प्रिय ! कामिनां प्रियाः त्वदृते प्रापयितुं क ईश्वरः ॥”)