वाचस्पत्यम्
वसन्ततिलक || न० ज्ञेयं वसन्ततिलकं तभजा जनौ गः” छन्दो० उक्ते चतुर्दशाक्षरपादके छन्दोभेदे
शब्दकल्पद्रुमः
वसन्ततिलकं || क्ली (वसन्तस्य तिलकमिव ।)
पुष्पविशेषः । चतुर्दशाक्षरपादच्छन्दोविशेषः । यथा, —
“ज्ञेयं वसन्ततिलकं त भ जा ज गौ गः ॥ फुल्लं वसन्ततिलकं तिलकं वनाल्या लीलापरं पिककुलं कलमत्र रौति । वात्येष पुष्पसुरभिर्मलयाद्रिवातो यातो हरिः स मथुरां विधिना हताः स्मः ॥” इति छन्दोमञ्जरी ॥ * ॥
औषधविशेषः । यथा, —
“अक्षारलूदहनसैन्धवविश्वशक्र- चूर्णं करञ्जसहितं मथितेन पीतम् । नैवं प्ररोहति पुनर्गुदजः स्वहेतो- स्तस्मै वसन्ततिलकैरपि कल्पकल्पम् ॥” इति वृत्तरत्नावल्यां गुदजरोगचिकित्सा ॥ (अन्यविधमौषधम् । यथा, —
“हेम्नो भस्मकमभ्रकं द्विगुणितं लौहास्त्रयः पारदा- श्चत्वारो नियतन्तु वङ्गयुगलञ्चैकीकृतं मर्द्दयेत् । मुक्ताविद्रुमयो रसेन समता गोक्षुरवासेक्षुणा सर्व्वं वन्थकरीषकेण सुदृढं गुप्तं पचेत् सप्तधा ॥ कस्तूरीघनसारमर्द्दितरसः पश्चात् सुसिद्धो भवेत् । कासश्वाससपित्तवातकफजित्पाण्डुक्षयादीन् हरेत् शूलादिग्रहणीं विषादिहरणो मेहांस्तथा विंशतिम् ॥ हृद्रोगादिहरो ज्वरादिशमनो वृष्यो वयोवर्द्धनः श्रेष्ठः पुष्टिकरो वसन्ततिलको मृत्युञ्जयेनोदितः ॥” इति वैद्यकरसेन्द्रसारसंग्रहे रसायनाद्यधिकारे ॥)