वाचस्पत्यम्
वसन्तद्रु || पु० वसन्तस्य द्रुः । आम्रवृक्षे शब्दर० तत्काले तस्य जायमानमुकुलत्वात् तथात्वम् वसन्तवृक्षादयोऽप्यत्र ।
शब्दकल्पद्रुमः
वसन्तद्रुः || पुं, (वसन्तस्य द्रुर्वृक्षः ।) आम्रवृक्षः । इति शब्दमाला ॥