वाचस्पत्यम्
वसन्तसख || पु० वसन्तस्य सखा अच्समा० । कामदेवे हला०
शब्दकल्पद्रुमः
वसन्तसखः || पुं, (वसन्तस्य सखा । “राजाहः सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।) कामदेवः । इति हलायुधः ॥