शब्दकल्पद्रुमः
वसुदः || पुं, (वसूनि ददातीति । दा + कः ।)
कुबेरः । इति धनदशब्ददर्शनात् ॥ (यथा, हरिवंशे । ८१ । १५ । “सनन्दगोपस्य गृहं वासाय वसुदोपमः । अवतीर्य्य ततो यानात् प्रविवेश महाबलः ॥” * ॥
वसु धनं ददातीति । विष्णुः । यथा, महा- भारते । १३ । १४९ । ४२ । “सुभुजो दुर्द्धरो वाग्मी महेन्द्रो वसुदो वसुः ॥”)
धनदातरि, त्रि ॥ (यथा, महाभारते । १२ । १२० । ३० “अमोघक्रोधहर्षस्य स्वयंकृत्यान्ववेक्षितुः । आत्मप्रययकोषस्य वसुदैव वसुन्धरा ॥”)