वाचस्पत्यम्
वसुदेव || पु० वसुना दीव्यति दिव—अच् । श्रीकृष्णजनके यादवे क्षत्रियभेदे अमरः ।
शब्दकल्पद्रुमः
वसुदेवः || पुं, (वसुना धनेन दीव्यतीति । दिव् + अच् ।)
श्रीकृष्णजनकः । तत्पर्य्यायः । थ्यानक- दुन्दुभिः २ । इत्यमरः ॥ शूरः ३ कृष्णपिता ४ । इति शब्दरत्नावली ॥ अस्य विवरणं यथा, — नारायण उवाच । “कश्यपो वसुदेवश्च देवमाता च देवकी । पूर्ब्बपुण्यफलेनैव संप्राप श्रीहरिं सुतम् ॥ देवमीढान्मारिषायां वसुदेवो महानभूत् । आनकञ्च महाहृष्टाः श्रीहरेर्ज्जनकञ्च तम् । सन्तः पुरातनास्तेन वदन्त्यानकदुन्दुभिम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ७ अध्यायः वह्निपुराणञ्च ॥ (स्वनामख्यातः कलियुगराज- विशषस्य देवभूतेरमात्यः । स तु देवभूतिं निहत्य स्वयं राज्यञ्चकार । यथा, भागवते । १२ । १ । १८ । “शुङ्गं हत्वा देवभूतिं कण्वोऽमात्यस्तु कामि- नम् । स्वयं करिष्यते राज्यं वसुदेवो महामतिः ॥” वसवो देवता यस्य । धनिष्ठानक्षत्रे, क्ली । यथा, वराहसंहितायाम् । ७ । ११ । “घोरा श्रवणस्त्वाष्ट्रं वसुदेवं वारुणञ्चैव ॥”)