संस्कृत-शब्दकोशः

वसुप्राण वसुरोचिस्

वसुमती

वाचस्पत्यम्

वसुमती ||‍ स्त्री वसूनि सन्त्यस्यां मतुप् । पृथिव्याम् अमरः ।


शब्दकल्पद्रुमः

वसुमती || स्त्री (वसूनि धनरत्नानि सन्त्यस्या इति । वसु + मतुप् । ङीप् ।)
पृथिवी । इत्यमरः ॥ (यथा, रघौ । ८ । ८३ । “तदलं तंदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता । वसुधेयमवेक्ष्य तां त्वया वसुमत्या हि नृपाः कलत्रिणः ॥)



Correction: