शब्दकल्पद्रुमः
वः || [स्] त्रि, युष्मान् । युष्मभ्यम् । युष्माकम् । यष्मच्छब्दस्य द्बितीयाचतुर्थीषष्ठीबहुवचनान्त- रूपोऽयम् । इति व्याकरणम् ॥ (यथा, मुग्ध- बोधे । “पुष्णा तु वो नोऽपि हरिर्धनं वो ददातु नो हन्त्वशुभानि वो नः ॥” पादवाक्यादौ तु अस्य प्रयोगो न भवति । इति वैयाकरणिकाः ॥)