संस्कृत-शब्दकोशः

वस्तय वस्ति

वस्तान्त्री

शब्दकल्पद्रुमः

वस्तान्त्री || स्त्री (वस्तस्येव अन्त्रमस्याः । गौरादि- त्वात् ङीष् ।)
छगलान्त्रीक्षुपः । तत्पर्य्यायः । वृषगन्धाख्या २ मेषान्त्री ३ वृषपत्रिका ४ अजान्त्री ५ वोकडी ६ । अस्या गुणाः । कटु- रसत्वम् । कासदोषविनाशित्वम् । बीजदातृत्वम् । गर्भजनकत्वञ्च । इति राजनिर्घण्टः ॥



Correction: