वाचस्पत्यम्
वस्ति || पु० वस्ते आवृणोति मूत्रम् वस—तिच् । नाभेरधो- भगे मूत्राधारे १ स्थाने २ वासे च ३ वसनदशायां पुंस्त्री ब० व० अमरः (पिचकारी) औषधदानार्थे द्रव्यभेदे पु० तद्विधिः भावप्र० ||“वस्तिर्द्विधानुवासाख्यो निरूहश्च ततः परम् । यः सेहो द्रीयते सः स्यादनुवासननामकः । कषाय क्षीरतैलैर्यो निरूहः स निगद्यते । वस्तिभिदींयते यस्मात्तस्माद्वस्तिरिति स्मृतः ।” वस्तिभिः मृगादीनां मूत्राशयैः “तत्रानुवासनाख्यो हि वस्तिर्यः सोऽत्र कथ्यते । अनुवासनभेदश्च मात्रावस्तिरुदीरितः । पल द्वयन्तस्य मात्रा तस्मादर्द्धापि वा भवेत् । अनुवास्यस्तु रूक्षः स्यात्तीक्ष्णाग्निः केवलानिली । नानुवास्यस्तु कुष्ठी स्यान्मेही स्थूलस्तथोदरी । नास्थाप्या नानुवास्याश्च जीर्णोन्मादतृडर्दिताः । शोथमूर्च्छारुचिभयश्चासकास- क्षयातुराः । नेत्रं कार्य्यं सुवर्ण्णादिधातुभिर्वृक्ष- वेणुभिः । नलैर्दन्तैर्विषाणाग्रैर्मणिभिर्वा विधीयते ।” नेत्रं नाडी तथा चोक्तं विश्वप्रकाशे “नेत्रं मन्थगुणे वस्त्रे तरुमूले विलोचने । नेत्रवन्धे च नाड्याञ्च नेत्रो नेतरि भेद्यवदिति” । “एकवर्षात्तु षड्वर्षाद् यावन्मानं षडङ्गुलम् । ततो द्वादशकं यावन्मानं व्यादष्टसम्मितम् । ततः प्ररं द्वादशमिरङ्गुलैर्नेत्रदीर्घता । मुखच्छिद्रं कलायाभं छिद्रं कोलास्थिसन्निभम् । यथासङ्ख्यं भवे- न्नेत्रं श्लक्ष्णं गोपुच्छसन्निभम् । गोपुच्छसन्निभं मूले त- स्मात् क्रमात् क्रमात् कृशम्” । मुखच्छिद्रादिप्रमाणं नेत्रं क्रमेण पड्वर्षा यद्वा दशवर्षा यद्वा तदूर्द्ध्वं वर्षाश्च ज्ञेयाः । “आतुराङ्गुष्ठमानेन मूले स्थूलं विधीयते । कनिष्ठिकापरीणाहमग्रे च गुटिकामुखम् ।” परि- णाहोऽत्र स्थौल्यम् “तन्मूले कर्णिके द्वे च कार्य्ये भागाच्चतुर्थकात् ।” कर्णिका गवादिकर्णवत् “योजयेत्तत्र वस्तिञ्च बन्धद्वयविधानतः । मृगाजशूकरगवां महि- षस्यापि वा भवेत् ।” वस्तिरिति शेषः । “मूत्रकोषस्य वस्तिस्तु तदलाभे तु चर्मणः । कषायरक्तः स मृदु र्वस्तिः स्निग्धो दृढोहितः । व्रणवस्तेस्तु नेत्रं स्यात् श्लक्ष्णमष्टाङ्गुलोन्मितम् । मुद्गच्छिद्रं गृध्रपक्षनालिका परिणाहि च । शरीरोपचयं वर्णं वलमारोग्यमायुषः । कुरुते परिवृद्धिञ्च वस्तिः सम्यगुपासितः । दिवा शीते वमन्ते च स्नेहवस्तिः प्रदोयते । ग्रीष्मवर्षाशरत्काले रात्रौ स्यादनुवासनम् । न चातिस्निग्धगशनं गोजति- त्वानुवासयेत् । मदं मूर्च्छाञ्च जनयेद्विधा स्नेहः प्रयो- जितः ।” द्विधा भोजने वस्तौ च । “रूक्षं मुक्तवतोऽन्यन्तं बलं वर्णञ्च हापयेत् । युक्तस्नेहमतो जन्तुं भोजयित्वानु- वासयेत्” । युक्तस्नेहं यथोचितस्नेहं भोज्यं भोजयि- त्वेत्यर्थः । “हीनमात्रावुभौ वस्ती नातिकार्य्यकरौ सृतौ । अतिमात्रौ तथानाहक्लमातीसारकारकौ” उभौ वस्ती अनुवासननिरूहाख्यौ । “उत्तमा स्यात्पलैः षड्भिर्मध्यमा स्यात्पलैस्त्रिभिः । पलाद्यर्द्धेन हीना स्यादु- क्तमात्रानुवासने । शताह्वासैन्धवाभ्याञ्च देयं स्नेहे च हूर्णकम् । तन्मात्रोत्तममध्यान्त्या षट्चतुर्द्धयमाषकैः । विरेचनात्सप्तरात्रे गते जातबलाय च । भुक्तान्नायानु- वास्याय वस्तिर्देयोऽनुवासनः । अथानुवास्यं स्वभ्यक्त- मुष्णाम्बु स्वेदितं शनैः । भोजयित्वा यथाशास्त्रं कृतञ्च- ङ्क्रमण ततः । उत्सृष्टानिलविण्मूत्रं योजयेत् स्नेह- वस्तिना” उष्णाम्बुस्वेदितम् उष्णाम्बुना स्नापितम् । “सुप्तस्य वामपार्श्वेन वामजङ्घाप्रसारिणः । कुञ्चितापर- जङ्घस्य नेत्रं स्निग्धे गुदे न्यसेत् । बद्धं वस्तिमुखं सूत्रै- र्वामहस्तेन धारयेत् । पीडयेद्दक्षिणेनैव मध्यवगेन घीरधीः । जृम्भाकासक्षयादींश्च यस्तिकाले न कारयेत् । त्रिंशन्मात्रामितः कालः प्रोक्तो वस्तेस्तु पीडने । ततः प्रणिहिते स्नेहे उत्तानो वाग्यतो भवेत् । स्वजानुनः करावर्त्तं कुर्य्याच्छोटिकया पुनः । एषा मात्रा भवेदेका सर्वत्रैवेष निश्चयः । निमिषोन्मेषणं पुंसामङ्गुल्या च्छोटि- काथ वा । गुर्वक्षरोच्चारणं वा स्यान्मात्रेयं स्मृता बुधैः । प्रमारितैः सर्वगात्रैर्यथावीर्य्यं प्रसर्षति” यथावीर्य्यं स्नेहादि । “ताडयेत्तलयोरेनन्त्रींस्त्रीन्वारान् शनैः शनैः । स्फिजोश्वैव तथा श्रीणीं शय्याञ्चैवोत्क्षिपेत्ततः । स्फिजोश्चैनं स्वपाणिभ्यां पूर्ववत्ताडयेद्बुधः । शय्याञ्च पद- तस्तस्य त्रीन् वारान्नुत्क्षिपेत्ततः । जाते विधाने तु तत कुर्य्यान्निद्रां यथासुखम् । सानिलः सपुरीषश्च स्नेहः प्र- त्येति यस्य तु । उपद्रवं विना शीघ्रं स सम्यगनुवासितः । जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः । लघ्वन्नं भोजयेत्कामं दीप्ताग्निस्तु नरो यदि । अनुवासिताय दातव्यमितरेऽह्नि सुखोदकम् । धान्यशुण्ठीकषायं वा स्नेहव्यापत्तिनाशनम्” । सुखोदकमुष्णोदकं व्यापत्तिर्व्या- धिः । “अनेन विधिना षड्वा सप्त चाष्टौ नवापि वा । विधेया वस्तयस्तेषामन्ते चेव निरूहणम् । दत्तस्तु प्रथ- मो वस्ति स्नेहयेद्वस्तिवङ्क्षणौ । सम्यग्दत्ती द्वितीयस्तु मू र्द्धस्थमनिलं जयेत् । बलं वर्णञ्च स जयेत्तृतीयस्तु प्रयो- जितः । चतुर्थपञ्चमौ दत्तौ स्नेहयेतां रसासृजी । षष्ठो मांसं स्नेहयति सप्तमो मेद एव च । अष्टमो नवमश्चापि मज्जानञ्च यथाक्रमम्” । यथाक्रम- मिति वचनादष्टमोऽस्थि स्नेहयेत् । “एवं शुक्रगतान् दोषान् द्विगुणः साधु साधयेत् ।” अष्टादशदिवसावधि- कवस्तिफलम् “अष्टादशाष्टादशकाद्दिनाद् यो ना विषेवते । स कुञ्जरबलोऽश्वस्य जवतुल्योऽमरप्रभः । रूक्षाय बहु- वाताय स्नेहवस्तिं दिने दिने । दद्याद्वैद्यस्तथान्येषा- मग्न्याबाधभयात् त्र्यहात् । स्नेहोऽल्पमात्रो रूक्षाणां ष्टीर्घकालमनत्ययः ।” अनत्ययः अबाधः । “तथा निरूहः स्निग्धानामल्पमात्रः प्रशस्यते । अथ वा यस्य तत्कालं स्नेहो निर्याति केवलः । तस्याप्यल्पतरो देयो न हि स्निग्धेऽवतिष्ठते ।” अवतिष्ठते दत्तः स्नेह इति शेषः “अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः । तदाङ्गसदनाध्माने शूलं श्वासश्च जायते । पक्वाशये गुरुत्वञ्च तत्र दद्यान्निरूहणम् । तीक्ष्णं तीक्ष्णौषधै- र्युक्तं फलवर्त्तिमथापि वा । यथानुलोत्रनो वायुर्मलः स्नेहश्च जायते । तथा विरेचनं दद्यात्तीक्ष्णं नस्यञ्च शस्यते । यस्य नोपद्रवं कुर्य्यात् स्नेहवर्त्तिरनिःसृता । सर्वोऽल्पो व्यावृतो रौक्ष्यादुपेक्ष्यः स विजानता । अनायातन्त्वहोरात्रे स्नेहं संशोधनैर्हरेत् । स्नेहवस्ता- वनायाते नान्यः स्नेहो विधीयते । गुडूच्येरण्डपूती- सभार्गीवृषकरौहिषम् । शतावरीं सहचरं काकनासां प्रलोन्मिताम् । यवमाषातसीकोलकुलत्थान् प्रसृतो- न्मितान् । अतुर्द्रोणेऽम्भसः पक्त्वा द्रोणशेषेण तेन च । पचेत्तैलाढकं सर्वैर्जीवनीर्वै पलोन्मितैः । अनुवासन- मेतद्वि सर्ववातविकारनुत् ।” पूतीकः करञ्जः रौहिषं ईषत्सुगन्धतृणविशेषः । काकनासा (काकाठोठी) प्रसृतम् प्रलद्वयम् । “षोढा सप्त व्यापदस्तु जायते वस्तिकर्मणः । द्रषितान् समुदायेन तांश्चिकित्स्यात्तु सुश्रुतात् । समुदायेन सनुचितनेत्रादिसामग्र्या । “मानाहारविहाराश्च परिहाराश्च कृत्स्नशः श्नेह- पानसमाः कार्य्या नात्र कार्य्या विचारणा ।”
शब्दकल्पद्रुमः
वस्तिः || पुं, स्त्री, (वसति मूत्रादिकमत्र । वस् + “वसेस्तिः ।” उणा० ४ । १७९ । इति तिः ।)
नाभेरधोभागः । इत्यमरः ॥ वस्ते आच्छादयति मूत्राशयपुटं वस्तिः । वस ल स्तृतौ नाम्नीति तिक् । मूत्राशयपुटो वस्तिरिति रत्नमाला । इति तट्टीकायां भरतः ॥ * ॥
अथ वस्ति- विधिः । “वस्तिर्द्विधानुवासाख्यो निरूहश्च ततः परः । यः स्नेहैर्दीयते स स्यादनुवासननामकः ॥ कषायक्षारतैलैर्यो निरूहः स निगद्यते । वस्तिभिर्दीयते यस्मात् तस्माद्बस्तिरिति स्मृतः ॥” वस्तिभिः मृगादीनां मूत्राशयैः । “तत्रानुवासनाख्यो हि वस्तिर्यः सोऽत्र कथ्यते । अनुवासनभेदश्च मात्रावस्तिरुदीरितः ॥ पलद्वयं तस्य मात्रा तस्मादर्द्धापि वा भवेत् । अनुवास्यस्तु रूक्षः स्यात्तीक्ष्णाग्निः केवला- निली ॥ नानुवास्यस्तु कुष्ठी स्यान्मेही स्थूलस्तथोदरी । नास्थाप्या नानुवास्याः स्युरजीर्णोन्मादतृड्- युताः ॥ शोथमूर्च्छारुचिभयश्वासकासक्षयातुराः । नेत्रं कार्य्यं सुवर्णादिधातुभिर्वृक्षवेणुभिः । नलैर्दन्तैर्विषाणाग्रैर्मणिभिर्वा विधीयते ॥” नेत्रं नाडी । तथा च विश्वप्रकाशे । नेत्रं पथि गुणे वस्त्रे तरुमूले विलोचने । नेत्रबन्धे च नाड्याञ्च नेत्रो नेतरि भेदवदिति ॥ “एकवर्षात्तु षड्वर्षं यावन्मानं षडङ्गुलम् । ततो द्बादशकं यावन्मानं स्यादष्टसंमितम् ॥ ततः परं द्वादशभिरङ्गुलैर्नेत्रदीर्घता । मुद्गच्छिद्रं कलायाभं छिद्रं कोलास्थिरन्ध्रकम् ॥ यथासंख्यं भवेन्नेत्रं श्लक्ष्णं गोपुच्छसन्निभम् ॥” मूले स्थूलम् । ततः क्रमात् कृशम् । मुद्गच्छिद्रादि- प्रमाणं नेत्रं क्रमेण षड्वर्षाय द्वादशवर्षाय तदूर्द्धवर्षाय ज्ञेयम् । “आतुराङ्गुष्ठमानेन मूले स्थूलं विधीयते । कनिष्ठिकापरीणाहमग्रे च गुटिकामुखम् ॥” परिणाहोऽत्र स्थौल्यम् । “तन्मूले कर्णिके द्वे च कार्य्ये भागाच्चतुर्थकात् । कर्णिका गवादिकर्णवत् । कर्णिका छत्राकारा गुदाधिकान्तःप्रवेशरोधिनी कर्णिकेति । कर्णि- काकारत्वात् कर्णिकेति कथ्यते । “योजयेत्तत्र वस्तिञ्च बन्धद्वयविधानतः । मृगाजशूकरगवां महिषस्यापि वा भवेत् ॥” वस्तिरिति शेषः । “मूत्रको यस्य वस्तिस्तु तदलाभे तु चर्म्मजः । कषायरक्तः समृदुर्वस्तिःस्निग्धो दृढो हितः ॥ व्रणवस्तेस्तु नेत्रं स्यात् श्लक्ष्णमष्टाङ्गुलोन्मितम् । मुद्गच्छिद्रं गृध्रपक्षनालिकापरिणाहि च ॥ शरीरोपचयं वर्णं बलमारोग्यमायुषः । कुरुते परिवृद्धिञ्च वस्तिः सम्यगुपासितः ॥ दिवा शीते वसन्ते च स्नेहवस्तिः प्रदीयते । ग्रीष्मवर्षाशरत्काले रात्रौ स्यादनुवासनम् । बवातिस्निग्धमशनं भोजयित्वानुवासयेत् । मदं मूर्च्छाञ्च जनयेत् द्बिधा स्नेहप्रयोजितः ॥” द्विधाभाजने वस्तौ च । “रूक्षं भुक्तवतोऽत्यन्तं बलं वर्णञ्च हापयेत् । युक्तस्ने हमतो जन्तुं भोजयित्वानुवासयेत् ॥” युक्तस्नेहं यथोचितस्नेहं भोज्यं भोजयित्वा इत्यर्थः । “हीनमात्रावुभौ वस्ती नातिकार्य्यकरौ स्मृतौ । अतिमात्रौ तथानाहक्लमातिसारकारकौ ॥” उभौ वस्ती अनुवासननिरूहाख्यौ । “उत्तमा स्यात् पलैः षड्भिर्मध्यमा स्यात् पलैस्त्रिभिः । पलद्वयेन हीना स्यादुक्ता मात्रानुवासने ॥” * ॥
अथ स्नेहवस्तिः । “शताह्वासैन्धवाभ्यां च देयं स्नेहे च चूर्णकम् । तन्मात्रोत्तममध्यान्त्याः षट्चतुर्द्वयमाषकैः ॥ विरेचनात् सप्तरात्रे गते जातबलाय च । भुक्तान्नायानुवास्याय वस्तिर्देयोऽनुवासनः ॥ अथानुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः । भोजयित्वा यथाशास्त्रं कृतं चंक्रमणं ततः ॥ उत्सृष्टानिलविण्मूत्रं योजयेत् स्नेहवस्तिना ॥” उष्णाम्बस्वेदितं उष्णाम्बुना स्नापितम् । “सुप्तस्य वामपार्श्वेन वामजङ्घाप्रसारिणः । कुञ्चितापरजङ्घस्य नेत्रं स्निग्धे गुदे न्यसेत् ॥ ऊर्द्ध्वं वस्तिमुखं मूत्रैर्व्वामहस्तेन धारयेत् । पीडयेद्दक्षिणेनैव मध्यवेगेन धीरधीः ॥ जृम्भाकासक्षवादींश्च वस्तिकाले न कारयेत् । त्रिंशन्मात्रामितः कालः प्रोक्तो वस्तेस्तु पीडने ॥ ततः प्रणिहिते स्नेहे उत्तानो वाक्शतं भवेत् । स्वजानुनः करावर्त्तं कुर्य्याच्छोटिकया युतम् ॥ एषा मात्रा भवेदेका सर्व्वत्रैवैष निश्चयः । निमेषोन्मेषणं पुंसामङ्गुल्या छोटिकाथ वा ॥ गुर्व्वक्षरोच्चारणं वा वाङ्मात्रेयं स्मृता बुधैः । प्रसारितैः सर्व्वगात्रैर्यथावीर्यं प्रसर्पति ॥” यथावीर्य्यं स्नेहादि । “ताडयेत्तलयोरेनं त्रींस्त्रीन् वारान् शनैः शनैः । स्फिचोश्चैव तथा श्रोणीं शय्याञ्चैवोत्क्षिपेत्ततः ॥ स्फिचोश्चैनं स्वपार्ष्णिभ्यां पूर्व्ववत्ताडयेद्बुधः । शय्याञ्च पादतस्तस्य त्रीन् वारानुत्क्षिपेत्ततः । जाते विधाने तु ततः कुर्य्यान्निद्रां यथासुखम् ॥ सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु । उपद्रवं विना शीघ्रं स सम्यगनुवासितः ॥” उपद्रवस्थाने उषचोषाविति सुश्रुते पाठः । “जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः । लघ्वन्नं भोजयेत् कामं दीप्ताग्निस्तु नरो यदि ॥ अनुवासिताय देयमितरेऽह्नि सुखोदकम् । धान्यशुण्ठीकषायं वा स्नेहव्यापत्तिनाशनम् ॥” सुखोदकमुष्णोदकम् । व्यापत्तिर्व्याधिः । “अनेन विधिना षड्वा सप्त वाष्टौ नवापि वा । विधेया वस्तयस्तेषामन्ते चैव निरूहणम् ॥ दत्तस्तु प्रथमो वस्तिः स्नेहयेद्वस्तिवङ्क्षणौ । सम्यग्दत्तो द्बितीयस्तु मूर्द्धस्थमनिलं जयेत् ॥ बलं वर्णञ्च जनयेत् तृतीयस्तु प्रयोजितः । चतुर्थपञ्चमौ दत्तौ स्नेहयेतां वसासृजी ॥ षष्ठो मांसं स्नेहयति सप्तमो मेद एव च । अष्टमो नवमश्चापि मज्जानञ्च यथाक्रमम् ॥” यथाक्रममिति वचनादष्टमोऽस्थि स्नेहयेत् । “एवं शुक्रगतान् दोषान् द्बिगुणः साधु साध- येत् ॥ द्विगुणः अष्टादशदिवसाधिको वस्तिः । “अष्टादशाष्टादशकान् वस्तीनां यो निषेवते । स कुञ्जरबलोऽश्वस्य रये तुल्योऽमरप्रभः ॥ रूक्षाय बहुवाताय स्नेहवस्तिं दिने दिने । दद्याद्वैद्यस्तथान्येषामग्र्यावाधभयात्त्र्यहात् ॥ स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः ।” अनत्ययोऽवाधकः । “तथा निरूहः स्निग्धानां मलमात्रः प्रशस्यते ॥ अथवा यस्य तत्कालं स्नेहो निर्याति केवलः । तस्यान्योऽल्पतरो देयो नहि स्निह्यति तिष्ठति ॥” स्निह्यति स्नेग्धे तिष्ठति दत्तस्नेह इति शेषः । “अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः । तदाङ्गवेदनाध्माने शूलं श्वासश्च जायते ॥ पक्वाशये गुरुत्वञ्च तत्र दद्यान्निरूहणम् । तीक्ष्णं तीक्ष्णौषधैर्युक्ता फलवर्त्तिर्हिताथवा ॥ यथानुलोमगोवायुर्मलं स्नेहश्च जायते । तथा विरेचनं दद्यात् तीक्ष्णं नस्यं च शस्यते ॥ यस्य नोपद्रवं कुर्य्यात् स्नेहवस्तिर्विनिःसृतः । सर्व्वोऽल्पो वा वृतो रौक्ष्यादुपेक्ष्यः स विजानता ॥ अनायातं त्वहोरात्रे स्नेहं संशोधनैर्हरेत् । स्नेहवस्तावनायाते नाल्पः स्नेहो विधीयते ॥ गुडूच्येरण्डपूतीकभार्गीवृष्याकरौहिषम् । शतावरीसहचरं काकनासां पलोन्मिताम् ॥ यवमायातसीकोलकुलत्थात् प्रसृतोन्मितात् । चतुर्द्रोणेऽम्भसः पक्त्वा द्रोणशेषेण तेन च ॥ पचेत्तैलाढकं पेष्यैर्जीवनीयैः पलोन्मितैः । अनुवासनमेतद्धि सर्व्ववातविकारनुत् ॥” पूतिकः करञ्जः । रौहिषं रोहिष इति सुगन्ध- तृणविशेषः । काकनासा कौयाठोठी । प्रसृतं पलद्वयम् । “षट्सप्ततिव्यापदस्तु जायन्ते वस्तिकर्म्मणः । दूषितात् समुदायेन ताश्चिकित्सास्तु सुश्रुतात् ॥” समुदायेन अनुचितनेत्रादिसामग्र्या । “पानाहारविहाराश्च वस्तिकर्म्मणि कृत्स्नशः । स्ने हपानसमाः कार्य्या नात्र कार्य्या विचा- रणा ॥” * ॥
अथ निरूहवस्तिविधिः । “निरूहवस्तिर्बहुधा भिद्यते कारणान्तरैः । तैरेव तस्य नामानि कृतानि मुनिपुङ्गवैः ॥” कारणान्तरैः समवायिकारणभेदैः । “निरूहस्यापरं नाम प्रोक्तमास्थापनं बुधैः । स्वस्थानस्थापनाद्दोषधातूनां स्थापनं मतम् ॥ निरूहस्य प्रमाणञ्च प्रस्थः पादोत्तरं परन् । मध्यमं प्रस्थमुद्दिष्टं हीनञ्च कुडवास्त्रयः ॥” परं श्रेष्ठम् । “अतिस्निग्धोऽक्लिष्टदोषः क्षतोरस्कः कृशस्तथा ।” अक्लिष्टदोषः अनुत्क्लिष्टदोषः । अदत्तोत्क्लेशन इति यावत् । क्षतोरस्कः उरःक्षतवान् । “आध्मानच्छर्दिहिक्वार्शः शोथश्वासप्रपीडितः । गुदशोफातिसारार्त्तो विसूचीकुष्ठसंयुतः ॥ गर्भिणी मधुमेही च नास्थाप्याश्च जलोदरी । वातव्याधावुदावर्त्ते वातासृग्विषमज्वरे ॥ मूर्च्छातृष्णोदरानाहमूत्रकृच्छ्राश्मरीषु च । वृद्धसृग्दरमन्दाग्निप्रमेहेषु निरूहणम् ॥ शूलेऽम्लपित्ते हृद्रोगे योजयेद्बिधिवद्बुधः । उत्सृष्टानिलविण्मूत्रस्निग्धं स्विन्नमभोजितम् ॥ मध्याह्ने गृहमध्ये च यथायोग्यं निरूहयेत् ।” स्निग्धं स्वभ्यक्तम् । स्विन्नं उष्णाम्बुस्नपितम् । “स्नेहवस्तिविधानेन बुधः कुर्य्यान्निरूहणम् ॥ जाते निरूहे च ततो भवेदुत्कटकासनः । तिष्ठेन्मुहूर्त्तमात्रन्तु निरूहागमनेच्छया ॥” अत्र मुहूर्त्तमात्रशब्दे नैतदपि बोधितम् । निरूहप्रत्यागमनकालो मुहूर्त्तमात्रः । “अनायातं मुहूर्त्तात्तु निरूहं शोधनैर्हरेत् । निरूहैरेव मतिमान् क्षारमूत्राम्लसैन्धवैः ॥ यस्य क्रमेण गच्छन्ति विट्पित्तकफवायवः । ला ञ्चोपजायेत सुनिरूढं तमादिशेत् ॥ विविक्तता मनस्तुष्टिः स्निग्धता व्याधिनिग्रहः । आस्थापनस्नेहवस्त्योः सम्यग्दाने तु लक्ष- णम् ॥” विविक्तता दत्तौषधनिःसरणम् । “अनेन विधिना युञ्ज्यान्निरूहं वस्तिदानवित् । द्बितीयं वा तृतीयं वा चतुर्थं वा यथोचितम् ॥ सस्नेह एकः पवने पित्ते द्वौ पयसा सह । कषायकटुका मूत्रा कफे तृष्णास्त्रयो हिताः ॥ पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात् । निरूहं भोजयित्वा च ततस्तमनुवासयेत् ॥ सुकुमारस्य वृद्धस्य बालस्य च मृदुर्हितः । वस्तिस्तीक्ष्णा प्रयुक्ता हि तेषां हन्याद्बला- युषी ॥ दद्यादुत्क्लेशनं पूर्ब्बं मध्ये दोषहरं ततः । पश्चात् संशमनीयञ्च दद्याद्बस्तिं विचक्षणः ॥ एरण्डबीजं मधुकं पिप्पली सैन्धवं वचा । हपुषा फलकल्कश्च वस्तिरुत्क्लेशनः स्मृतः ॥” इत्युत्क्लेशनवस्तिः ॥ * ॥
“शताह्वा मधुकं विल्वं कौटजं फलमेव च । सकाञ्जिकः सगोमूत्रो वस्तिर्दोषहरः स्मृतः ॥” इति दोषहरवस्तिः ॥ * ॥
“प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम् । सक्षीरः शस्यते वस्तिर्दोषाणां शमनः स्मृतः ॥” इति शमनवस्तिः ॥ * ॥
“त्रिफलाक्वाथगोमूत्रक्षौद्रक्षारसमायुताः । ऊषकादिप्रतीवाया वस्तयो लेखनाः स्मृताः ॥” ऊषकादिप्रतीवायाः ऊषकादिगणविशेषचूर्ण- प्रक्षेपाः । इति लेखनवस्तयः ॥ * ॥
“बृंहणद्रव्यनिःक्वाथैः कल्कैर्मधुरकैर्युताः । सर्पिर्मांसरसोपेता वस्तयो बृंहणाः स्मृताः ॥” इति वृंहणवस्तयः ॥ * ॥
“वदर्य्यैरावतीशेलुशाल्मलीपुष्पजाङ्कुराः ।” ऐरावती नाराङ्गी । शेलुः बहुवारः । क्षीरसिद्धाः क्षौद्रयुक्ता नाम्ना पिच्छिलसंज्ञिताः ॥ अजोरभ्रैणरुधिरैर्युक्ता देया विचक्षणैः ।” अजश्छागः । उरभ्रो मेषः । एणः कृष्णमृगः । “मात्रा पच्छिलवस्तीनां पलैर्द्बादशभिर्मता ॥” इति पिच्छिलावस्तयः ॥ * ॥
“दत्त्वादौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम् । विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रसृतित्रयम् ॥ एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत् । संमूर्च्छिते कषायन्तु चतुःप्रसृतिसम्मितम् ॥ गृह्णीयाच्च तदावापमन्ते द्विप्रसृतोन्मितम् । क्षिप्त्वा विमथ्य दद्याच्च निरूहं कुशलो भिषक् ॥ एवं प्रकल्पितो वस्तिर्द्बादशप्रसृतो भवेत् । वाते चतुःपलं क्षौद्रं दद्यात् स्नेहस्य षट्पलम् ॥ पित्ते चतुःपलं क्षौद्रं स्नेहं दद्यात् पलत्रयम् । कफे तु षट्पलं क्षौद्रं क्षिपेत् स्नेहं चतुः- पलम् ॥” इति निरूहमात्रा ॥ “एरण्डक्वाथतुल्यांशं मधु तैलं पलाष्टकम् । शतपुष्पापलार्द्धेन सैन्धवार्द्धेन संयुतम् ॥ मधुतैलिकसंज्ञोऽयं वस्तिर्दारुविलोडितः । मेदोगुल्मकृमिप्लीहमलोदावर्त्तनाशनः ॥ बलवर्णकरश्चैव वृष्यो दीपनबृंहणः ॥” इति मधुतैलिकवस्तिः ॥ “क्षौद्राज्यक्षीरतैलानां प्रसृतं प्रसृतं भवेत् । हपुषा सैन्धवाक्षांशो वस्तिः स्याद्यापनः परः ॥” यापनः सारकः । इति यापनवस्तिः ॥ * ॥
“एरण्डमूलनिष्क्वाथो मधु तैलं ससैन्धवम् । एष युक्तरथो वस्तिः सवचापिप्पलीफलः ॥” इति युक्तरथवस्तिः ॥ “पञ्चमूलस्य निष्क्वाथस्तैलं मागधिका मधु । ससैन्धवः सयष्ट्याह्वः सिद्धवस्तिरिति स्मृतः ॥” इति सिद्धवस्तिः ॥ “स्नानमुष्णोदकैः कुर्य्याद्दिवास्वप्नमजीर्णताम् । वर्ज्जयेदपरं सर्व्वमाचरेत् स्नेहवस्तिवत् ॥” अथोत्तरवस्तिविधिः । “अतः परं प्रवक्ष्यामि वस्तिमुत्तरसंज्ञितम् । निरूहादुत्तरो यस्मात्तस्मादुत्तरसंज्ञकः ॥ द्वादशाङ्गुलकं नेत्रं मध्ये च कृतकर्णिकम् । मालतीपुष्पवृन्ताभं छिद्रं सर्षपनिर्गमम् ॥ पञ्चविंशतिवर्षाणामधोमात्रा द्विकार्षिका । तदूर्द्धं प्रलमात्रा च स्नेहस्योक्ता भिषग्वरैः ॥ अथ स्थापनशुद्धस्य तृप्तस्य स्नानभोजनैः । स्थितस्य जानुमात्रेण पीठेऽन्विष्य शलाकया ॥ स्निग्धया मेढ्रमार्गन्तु ततो नेत्रं नियोजयेत् । शनैः शनैर्घृताभ्यक्ते मेढ्ररन्ध्रेऽङ्गुलानि षट् ॥ ततोऽवपीडयेद्वस्तिं शनैर्नेत्रं विनिर्हरेत् । ततः प्रत्यागते स्नेहे स्नेहवस्तिक्रमो हितः ॥ स्त्रीणां कनिष्ठिकास्थूलं नेत्रं कुर्य्याद्दशाङ्गुलम् । मुहुः प्रवेशं योज्यञ्च योन्यन्तश्चतुरङ्गुलम् ॥ द्व्यङ्गुलं मूत्रमार्गे च सूक्ष्मनेत्रं वियोजयेत् । मूत्रकृच्छ्रविकारेषु बालानां त्वेकमङ्गुलम् ॥ शनैर्निष्क्रम्यमाधेयं सूक्ष्मं नेत्रं विचक्षणैः ।” मालतीपुष्पवृन्ताभं नेत्रमित्युक्तत्वात् पुनः सूक्ष्म- शब्दाभिधाने बालानां ततोऽपि नेत्रस्य सूक्ष्मता- बोधनार्थम् । “योनिमार्गेषु नारीनां स्ने हमात्रा द्विपालिका ॥ मूत्रमार्गे पलोन्माना बालानाञ्च द्विकार्षिकी । उत्तानायै स्त्रियै दद्यात् ऊर्द्ध्वजान्वै विचक्षणः ॥ अप्रत्यागच्छति भिषक् वस्तावुत्तरसंज्ञिते । भूयो वस्तिं विदध्याच्च संयुक्तं शोधनैर्गुणैः ॥ फलवस्तिं विदध्याद्वा योनिमार्गे दृढं भिषक् । सूत्रैर्विनिर्म्मितां स्निग्धां शोधनद्रव्यसंयुताम् ॥ दह्यमाने तथा वस्तौ दद्याद्वस्तिं विशारदः । क्षीरिवृक्षकषायेण पयसा शीतलेन वा ॥” दह्यमाने वस्तौ यस्मिन् स्थाने वस्तिर्दत्तस्तस्मिन् दह्यमाने । “वस्तिः शुक्ररुजः पुंसां स्त्रीणामार्त्तवजा रुजः । हन्यादुत्तरवस्तिस्तु नोचिता मेहिनां क्वचित् ॥ सम्यग्दत्तस्य लिङ्गानि व्यापदक्रम एव च । वस्तेरुत्तरसंज्ञस्य समानः स्नेहवस्तिना ॥” * ॥
अथ फलवर्त्तिविधिः । “घृताभ्यक्ते गुदे क्षिप्त्वा श्लक्ष्णा स्वाङ्गुष्ठसन्निभा । मलप्रवर्त्तिनी वर्त्तिः फलवर्त्तिश्च सा स्मृता ॥” इति भावप्रकाशः ॥ * ॥
(“चतुरङ्गुलां वेणुमयीं नाडीं प्रतिलक्षणं कृत्वा तया वस्तिप्रतिकर्म्म कुर्य्यात् । नातिचोष्णे च काले च न शीते न च भोजिते । न निद्रालौ च मूत्रार्त्ते विष्ठार्त्ते न च वेदभाक् ॥ वस्तिकर्म्म निरूहञ्च कारयेत्तं निरस्य च । आदौ मूत्रविष्ठोत्सर्गं कृत्वा गुदं प्रक्षाल्य नाति शिथिलशय्यायां शाययित्वा वामाङ्गे वामपादं दक्षिणाङ्गे दक्षिणपादञ्च सङ्कोच्य जङ्घोपरि- संस्थाप्य गुदाभ्यन्तरे द्व्यङ्गुलमात्रां नाडीं सुधीः सञ्चारयेत् । ततः शनैः शनैर्वस्तिं निष्पीड्य द्विपलपरिमिततैलेन निरूहं कुर्य्यात् । निरुहा- नन्तरं शनैः शनैरुत्तानं शाययित्वा ऊर्द्ध्वी कृत्य च पश्चात् सङ्कोच्य पाणिभिः पञ्च वारान् स्फिक्पिण्डान् त्रोटयेत् । ततः स्वस्थं कृत्वा क्षणेनाप्यामाशयं मलस्थानं बोधयति । वस्त्यु- दरवातान् दोषान् निवारयति । पण्डितास्तं वस्तिनिरूहं तद्वस्तिकर्म्म च विदुः ।” इति हारीते सूत्रस्थाने तृतीयेऽध्याये ॥ “कृतक्षणं शैलवरस्य रम्ये स्थितं धनेशायतनस्य पार्श्वे । महर्षिसंधैर्वृतमग्निवेशः पुनर्व्वसुम्प्राञ्जलिरन्वपृच्छत् ॥ वस्तिर्नरेभ्यः किमपेक्ष्य दत्तः स्यात् सिद्धिमान् किन्नयनस्य नेत्रम् । कीदृक् प्रमाणाकृति किङ्गुणञ्च केषाञ्च किं योनिगुणश्च वस्तिः ॥ निरूहकर्म्म प्रणिधानमात्राः स्नेहस्य वा काः शमने विधिः कः । के वस्तयः केषु मता इतीदं श्रुत्वोत्तरं प्राह वचो महर्षिः ॥ समीक्ष्य दोषौषधदेशकाल- सात्म्याग्निसत्त्वौकवयोबलानि । वस्तिः प्रयुक्तो नियतं गुणाय स्युः सर्व्वकर्म्माणि च सिद्धिमन्ति ॥ सुवर्णरूप्यत्रपुताम्रवीतिं कांस्यास्थिशस्त्रद्रुमवेणुदन्तैः । नलैर्व्विषाणैर्मणिभिश्च तैस्तैः कार्य्याणि नेत्राणि सुकर्णिकानि ॥ षड्द्वादशाष्टाङ्गुलसम्मितानि षड्विंशतिर्द्वादशवर्षजानाम् । स्युर्मुद्गकर्कन्धुसतीनवाहि- छिद्राणि वर्त्त्या पिहितानि चापि ॥ यथावयोऽङ्गुष्ठकनिष्ठिकाभ्यां मूलाग्रयोः स्युः परिणाहवन्ति । ऋजूनि गोपुच्छसमाकृतीनि श्लक्ष्णानि च स्युर्गुलिकामुखानि ॥ स्यात् कर्णिकैकाग्रचतुर्थभागे मूलाश्रिते वस्तिनिबन्धने द्बे । जरद्गवो माहिषहारिणो वा स्यात् शौकरो वस्तिरजस्य वापि ॥ दृढस्तनुर्नष्टशिरो विगन्धः कषायरक्तः सुमृदुः सुशुद्धः । नृणां वयो वीक्ष्य यथानुरूपं नेत्रेषु योज्यस्तु सुबद्धसूत्रः ॥ वस्तेरमावे प्लवानां गलो वा स्यादङ्कपादः सुघनः पटो वा । आस्थापनार्हं पुरुषं विधिज्ञः समीक्ष्य पुण्येऽहनि शुक्लपक्षे ॥ प्रशस्तनक्षत्रमुहूर्त्तयोगे जीर्णान्नमेकाग्रमुपक्रमेत । बालां गुडूचीं त्रिफलां सरास्नां द्वे पञ्च मूले च पलोन्मितानि ॥ अष्टौ पलान्यर्द्धतुलाञ्च मांसा- च्छागात् पचेदप्सु चतुर्थशेषम् । पूतं यवानीफलविल्वकुष्ठ- वचाशताह्वा घनपिप्पलीनाम् ॥ कल्कैर्गुडक्षौद्रयुतैः स तैलै- र्युतं सुखोष्णं तु पिचुप्रमाणैः । गुडोत्पलं द्बिप्रसृतान्तु मात्रां स्नेहस्य युक्त्या मधुसैन्धवादि ॥ प्रक्षिप्य वस्तौ मथितं खजेन सुबद्धमुच्छाम्य च निर्व्व्यलीकम् । अङ्गुष्ठमध्येन मुखं पिधाय नेत्राग्रसंस्थामपनीयवर्त्तिम् ॥ तैलाक्तगात्रं कृतमत्र विट्कं नाति क्षुधार्त्तं शयने मनुष्यम् । समेऽथ वेधन्नतशैरसेवा नात्युच्छ्रिते स्वास्तरणोपपन्ने ॥ सव्येन पार्श्वेन सुखं शयानं कृत्वर्ज्जुदेहं स्वभुजोपधानम् । निकुच्च्य सव्येतरमस्य सक्थि वामं प्रसार्य्य प्रणयेत्ततस्तम् ॥ स्निग्धे गुदे नेत्रचतुर्थभागं स्निग्धं शनैर्मृद्वृजुपृष्ठवंशम् । अकम्पनावेपनलाधवादीन् पाण्योर्गुणांश्चापि विदर्शयन् हि ॥ प्रपीड्य चैकग्रहणेन दत्तं नेत्रं शनैरेव ततोऽवकर्षेत् । तिर्य्यक्प्रणीते तु न याति धारा गुदव्रणः स्याच्चरिते च नेत्रे ॥ दत्तः शनैर्नाशयमेति वस्तिः कण्ठं प्रधावत्यतिपीडितश्च । शीतस्त्वतिस्तम्भकरो विदाहं मूर्च्छाञ्च कुर्य्यादतिमात्रमुष्णः । स्निग्धोऽतिजाड्यं पवनन्तु रुक्ष- स्तन्वल्पमात्रा लवणस्त्वयोगम् । करोति मात्राभ्यधिकोऽतियोगं क्षामन्तु सान्द्रः सुचिरेण चेति ॥ दाहातिसारौ लवणोऽतिकुर्य्या- त्तस्मात् प्रयुक्तं सममेव दद्यात् । पूर्व्वं हि योज्यं मधुसैन्धवन्तु स्नेहं विनिर्मथ्य ततोऽनुकल्कम् ॥ विमथ्य संयुज्य पुनद्रवैस्तत् वस्तौ निदध्यान्मथितं खजेन । आमाशयोऽग्निर्ग्रहणीगुदञ्च तत्पार्श्वसंस्थस्य सुखोपलब्धिः ॥ लीयन्त एवं वलयश्च तस्मात् सव्यं शयानोऽरतिवस्तिदानम् । विड्वातवेगो यदि चार्द्धदत्ते निष्कृष्य दत्ते प्रणयेदशेषम् ॥ उत्तानदेहस्य कृतोपधानः स्याद्वीर्य्यमाप्नोति तथास्य देहम् । एकोऽपकर्षत्यनिलं स्वमार्गात् पित्तं द्वितीयस्तु कफं तृतीयः ॥ प्रत्यागते कोष्णजलावसिक्तः शाल्यन्नमद्यात्तनुना रसेन । जीर्णे तु सायं लघु चाल्पमात्रं भुक्तेऽनुबास्यः परिवृंहणार्थम् ॥” “स्निग्धोष्ण एकः पवने निरूहो द्वौ स्वादुशीतौ पयसा च पित्ते । त्रयः समूत्राः कटुकोष्णतीक्ष्णाः कफे निरूहा न परं विधेयाः ॥ रसेन वाते प्रति भोजनं स्यात् क्षीरेण पित्ते तु कफे च यूषैः । तथानुवास्येषु च विल्वतैलं स्याज्जीवनीयं फलसाधितञ्च ॥” इति चरके सिद्धिस्थाने तृतीयेऽध्याये ॥ “तत्र स्नेहादीनां कर्म्मणां वस्तिकर्म्मप्रधान- तममाहुराचार्य्याः । कस्मादनेककर्म्मकरत्वा- द्वस्तेरिह वस्तिर्नानाविधद्रव्यसंयोगाद्दोषाणां संशोधनसंशमनसंग्रहणानि करोति । क्षीण- शुक्रं वाजीकरोति कृशं बृंहयति स्थूलं कर्ष- यति चक्षुः प्रीणयति वलीपलितमुपहन्ति वयः स्थापति । शरीरोपचयं वर्णं बलमारोग्य- मायुषः परिवृद्धिञ्च करोति वस्तिः सम्य- गुपासितः ॥ तथा ज्वरातीसारतिमिरप्रति- श्यायशिरोरोगाधिमन्थार्द्दिताक्षेपकपक्षाघातै- काङ्गसर्व्वाङ्गरोगाध्मानोदरशर्कराशूलवृद्ध्युप- दंशानाहमूत्रकृच्छ्रगुल्मवातशोणितवातमूत्र- पुरीषोदावर्त्तशुक्रार्त्तवस्तन्यनाशहृद्धनुमण्याग्रहा- र्शोऽश्मरी मूढगर्भप्रभृतिषु चात्यर्थमुपयुज्यते ॥” “तत्र द्विविधो वस्तिः नैरूहिकः स्नैहिकश्च । आस्थापनं निरूह इत्यनर्थान्तरम् । तस्य विकल्पो माधुतैलिकः । तस्य पर्य्यायशब्दो यापनो युक्तरथः सिद्धवस्तिरिति । सदोष- निर्हरणाच्छरीररोगहरणाद्वा निरूहः । वयः स्थापनादायुःस्थापनाद्बास्थापनम् । माधुतैलि- कविधानञ्च निरूहक्रमचिकित्सिते वक्ष्यामः ॥ तत्र यथा प्रमाणगुणविहितः स्नेहवस्ति- विकल्पोऽनुवासनः पादावकृष्टः । अनुवसन्नपि न दुष्यत्यनुदिवसं दीयत इत्यनुवासनः ॥ तस्यापि विकल्पोऽर्द्धार्द्धमात्रावकृष्टोऽपरि- हार्य्योमात्रावस्तिरिति ॥” इति सुश्रुते चिकित् सितस्थाने ३५ अध्यायः ॥ “अत ऊर्द्ध्वं प्रवक्ष्यामि व्यापदः स्नेहवस्तिजाः । बलवन्तो यदा दोषाः कोष्ठे स्युरनिलादयः ॥ अल्पवीर्य्यं तदा स्नेहमभिभूय पृथग्विधान् । कुर्व्वन्त्युपद्रदान् स्नेहः स चापि न निवर्त्तते ॥ तत्र वाताभिभूते तु स्नेहे मुखकषायता । जृम्भावातरुजास्तास्ता वेपथुर्विषमज्वरः ॥ पित्ताभिभूते स्नेहे तु मुखस्य कटुता भवेत् । दाहस्तृष्णा ज्वरः स्वेदो नेत्रमूत्राङ्गपीतता ॥ श्लेष्माभिभूते स्नेहे तु प्रसेको मधुरास्यता । गौरवं छर्द्दिरुच्छ्वासः कृच्छ्रः शीतज्वरोऽरुचिः ॥ तत्र दोषाभिभूते तु स्नेहे वस्तिं निधापयेत् । यथास्वं दोषशमनान्युपयोज्यानि यानि च ॥ अत्याशितेऽन्नाभिभवात् स्नेहो नैति यदा तदा । गुरुरामाशयः शूलं वायुश्चाप्रतिसञ्चरः ॥ हृत्पीडामुखवैरस्यं श्वासो मूर्च्छा भ्रमोऽरुचिः । तत्रापतर्पणस्यान्ते दीपनो विधिरिष्यते ॥ अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः । तदाङ्गसदनाध्माते श्वासः शूलञ्च जायते ॥ पक्वाशयगुरुत्वञ्च तत्र दद्यान्निरूहणम् । अतितीक्ष्णौषधैरेवं सिद्धञ्चाप्यनुवासनम् ॥ शुद्धस्य दूरानुसृते स्नेहे स्नेहस्य दर्शनम् । गात्रेषु सर्व्वेन्द्रियाणामुपलेपोऽवसादनम् ॥ स्नेहगन्धिमुखन्तत्र कासश्वासावरोचकः । अतिपीडितवत्तत्र विविधा स्थापनन्तथा ॥ अस्विन्नस्याविशुद्धस्य स्नेहोऽल्पः सम्प्रयो- जितः । शीतो मृदुश्च नाभ्येति ततो मन्दं प्रवाहयेत् ॥ विबन्धगौरवाध्मानशूलाः पक्वाशयं प्रति । तत्रास्थापनमेवाशु प्रयोज्यं सानुवासनम् ॥ अल्पं युक्तवतोऽल्पो हि स्नेहोमन्दगुणस्तथा । दत्तो नैति क्लमोत्क्लेशौ भृशं वा रतिमाव- हेत् ॥ तत्र वास्थापनं कार्य्यं शोधनीयेन वस्तिना । अन्वासनञ्च स्नेहेन शोधनीयेन शस्यते ॥ अहोरात्रादपि स्नेहः प्रत्यागच्छेन्न दूष्यति । कुर्य्याद्वस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत् ॥ यस्य नोपद्रवं कुर्य्यात् स्न हवस्तिरनिःसृतः । सर्व्वोऽल्पो वा वृतो रौक्ष्यादुपेक्ष्यः स विजा- नता ॥ अनायान्तन्त्वहोरात्रात् स्नेहं संशोधनैर्जयेत् ॥ स्नेहवस्तावनायाते नान्यः स्नेहो विधीयते । इत्युक्ता व्यापदः सर्व्वाः सलक्षणचिकित्- सिताः ॥” इति च सुश्रुते चिकित्सितस्थाने ३७ अध्यायः ॥)