वाचस्पत्यम्
वस्त्ररञ्जन || पु० वस्त्रं रञ्जयति रन्ज—णिच्—ल्यु । कुसुम्भो राजनि० ।
शब्दकल्पद्रुमः
वस्त्ररञ्जनः || पुं, (रञ्जयतीति । रञ्ज + णिच् + ल्युः ।)
वस्त्राणां रञ्जनः । कुसुम्भः । इति राजनिर्घण्टः ॥ (तथास्य पर्य्यायः । “स्यात् कुसुम्भं वह्निशिखं वस्त्ररञ्जनमित्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)