संस्कृत-शब्दकोशः

वस्त्ररञ्जन वस्नन

वस्न

वाचस्पत्यम्

वस्न ||‍ न० वस—मन् । १ वेतने २ मूल्ये ३ वस्त्रे ४ द्रव्ये च विश्वः ५ धने ६ मृत्यौ च अमरटीकायां रमानाथः । मूल्ये पु० अमरः ।


शब्दकल्पद्रुमः

वस्नं || क्ली (वस निवासे आच्छादने वा + “धापृ- वस्यज्यतिभ्यो नः ।” उणा० ३ । ६ । इति करणादौ यथायथं नः ।)
वेतनम् । मूल्यम् । (यथा, ऋग्वेदे । ४ । २४ । ९ । “भूयसा वस्नमचरत् कनीयोऽविक्रीतो अका- निषं पुनर्यन् ॥”)
वसनम् । द्रव्यम् । इति विश्वः ॥ धनम् । भृतिः । इति हेमचन्द्रः ॥ (वस्ते आच्छादयति शरीर- मिति । कर्त्तरि नः ।)
त्वक् । इत्यमरटीकायां रामाश्रयः ॥


शब्दकल्पद्रुमः

वस्नः || पुं, (वस् + न ।)
मूल्यम् । इत्यमरः ॥



Correction: