वहन
वहल
वहन्त
वाचस्पत्यम्
वहन्त || पु० वह—झ । वायो सि० कौ० २ बाले उणा० ।
शब्दकल्पद्रुमः
वहन्तः || पुं, (वहति वातीति । वह + “तॄभूवहि- वसीति ।” उणा० ३ । १२८ । इति झच् ।)
वायुः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (उह्यते इति । कर्म्मणि झच् ।)
बाले, त्रि । इत्युणादिकोषः ॥