संस्कृत-शब्दकोशः

वहतु वहन्त

वहन

वाचस्पत्यम्

वहन ||‍ न० वह—भावे ल्युट् । १ पुरभेदे त्रिका० २ प्रापणे । ३ गमने च ।


शब्दकल्पद्रुमः

वहनं || क्ली (उह्यतेऽनेनेति । वह + करणे ल्युट् ।)
होडः । हुडी इति भाषा । यथा, —
“तरणो भेलके वारिरथो नौस्तरिकः प्लवः । होडस्तरान्धुर्व्वहनं वहित्रं वार्व्वटः पुमान् ॥” इति त्रिकाण्डशेषः ॥ (यथा, कथासरित्सागरे । २५ । ४५ । “क्षणान्तरे च बणिजामाक्रन्दैस्तीव्रपूरितम् । भरादिव तदुत्पत्य वहनं समभज्यत ॥” वह + भावे ल्युट् । प्रापणम् । धारणम् । यथा, महाभारते । २ । ३१ । ४१ । “पावनात् पावकश्चासि वहनात् हव्यवाहनः ॥” वहतीति । वह + ल्युः । वाहके, त्रि । यथा, कथासरित्सागरे । ११९ । १९६ । “दैत्यानामधिपो विमानवहनः सान्तःपुरः सानुगः ॥”)



Correction: