वाचस्पत्यम्
वहिर्मुख || त्रि० वहिः बाह्यविषये मुखं प्रवणता यस्य । बाह्यविषयासक्तमनस्के विषयासक्ते १ जने २ विमुखे च ।
शब्दकल्पद्रुमः
व(ब)हिर्मुखः || त्रि (बहिर्बाह्यविषये मुखं प्रवणता यस्य ।)
विमुखः । यथा, नरसिंहाचार्य्यधृते- शानसंहितायाम् । “शैवो वा वैष्णवो वापि यो वा स्यादन्यपूजकः । सर्व्वं पूजाफलं हन्ति शिवरात्रिवहिर्मुखः ॥” इति तिथ्यादितत्त्वम् ॥
शब्दकल्पद्रुमः
वहिर्मुखः || पुं, (वर्हिरग्निर्मुखं यस्य ।)
देवता । इत्यमरः । १ । १ । ९ ॥