संस्कृत-शब्दकोशः

वहिर्भूत वहिश्चर

वहिर्मुख

वाचस्पत्यम्

वहिर्मुख ||‍ त्रि० वहिः बाह्यविषये मुखं प्रवणता यस्य । बाह्यविषयासक्तमनस्के विषयासक्ते १ जने २ विमुखे च ।


शब्दकल्पद्रुमः

व(ब)हिर्मुखः || त्रि (बहिर्बाह्यविषये मुखं प्रवणता यस्य ।)
विमुखः । यथा, नरसिंहाचार्य्यधृते- शानसंहितायाम् । “शैवो वा वैष्णवो वापि यो वा स्यादन्यपूजकः । सर्व्वं पूजाफलं हन्ति शिवरात्रिवहिर्मुखः ॥” इति तिथ्यादितत्त्वम् ॥


शब्दकल्पद्रुमः

वहिर्मुखः || पुं, (वर्हिरग्निर्मुखं यस्य ।)
देवता । इत्यमरः । १ । १ । ९ ॥



Correction: