शब्दकल्पद्रुमः
व(ब)हिश्चरः || पुं, (वहिश्चरतीति । चर + टः ।) कर्कटः । इति हेमचन्द्रः ॥ (वहिश्चरणशीले, त्रि । यथा, मार्कण्डेये । २३ । ८३ । “युवयोर्यन्मदीयं तन्मामकं युवयोः स्वकम् । एतत्सत्यं विजानीतं युवां प्राणा वहिश्चराः ॥”)