वाचस्पत्यम्
वहिस् || अव्य० वह—इमुन् । बाह्ये अमरः ।
शब्दकल्पद्रुमः
व(ब)हिः || [स्] व्य, वाह्यम् । इत्यमरः ॥ (यथा, मनुः । १० । ४५ । “मुखबाहूरुपज्जानां या लोके जातयो बहिः । म्लेच्छवाचश्चार्य्यवाचः सर्व्वे ते दस्यवः स्मृताः ॥” यथा च, रामायणे । २ । ५३ । २ । “अद्येयं प्रथमा रात्रिर्याता जनपदात् बहिः । या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि ॥”)