वाचस्पत्यम्
वह्नि || पु० वह—नि । १ अग्नौ २ चित्रकवृक्षे अमरः ३ भल्ला- तके ४ निम्बूके राजनि० । तन्त्रोक्ते ५ रकारे च । “वर्गाद्यं वह्निसंस्थम्” इति श्यामास्तोत्रम् । वह्निभेदादिकं यथा ||“जृम्भको दापकश्चैव विभ्रमभ्रमशोभनाः । आव- सथ्याहवनीयो दक्षिणाग्निस्तथैव च । अन्वाहार्य्यो गार्हपत्य इत्येते दश वह्नयः” । अन्यैरन्यथोक्तानि यथा “म्राजको रञ्जकश्चैव क्लेदकः स्नेहकस्तथा । धारका बन्धकश्चैव द्रावकाख्यश्च सप्तमः । व्यापकः पावकश्चैव श्लेष्मको दशमः स्मृतः” । शरीरस्थवह्नेः नामानि यथा “वह्नयो दोषदुष्येषु संलीना दश देहिनः” । दोष- दुष्याश्च यथा “वातपित्तकफा दोषाः दुष्या स्युः सप्त- ञ्जतवः” शा० ति० । “मुख्याग्नयो यथा “गार्हपत्यो दक्षिणाग्निस्तथैवाहवनीयकः । एतेऽग्नयस्त्रयो मुख्याः शेषाश्चोपसदस्त्रयः” वह्नि० पु० । तत्र निषिद्धकर्माणि यथा “नाशुद्धोऽग्निं परिचरेत् न देवान् कीर्त्तयेदृषीन् । न चाग्निं लङ्घयेद्धीमान् नोपदध्यादधः क्वचित् । न चैनं पादतः कुर्य्यात् मुखेन न धमेद्वुधः । अग्नौ न निःक्षि- पेदग्निं नाद्भिः प्रशमयेत्तथा । न वह्निं मुखनिश्वासै- र्ज्वालयेन्नाशुचिर्बुधः । स्वमग्निं नैव हस्तेन स्पृशेन्नाप्सु चिरं वसेत् । नापक्षिपेन्नोपधमेत् न सूर्पेण च पाणिना । मुखेनाग्निं समुन्नीतं मुखादग्निरजायत” कूर्मपु० १५ अ० । अग्निवैकृत्यं तस्य शान्तिश्च यथा “अनग्निर्दीप्यते यत्र राष्ट्रे यस्य निरिन्धनः । न दीप्यते चेन्धनवान् स राष्ट्रः पीड्यते नृपैः । प्रज्वलेदप्सु मासं वा तथार्द्धञ्चापि किञ्चन । प्रासाद तोरणद्वारं नृपवेश्म सुरालयम् । एतानि यत्र दह्यन्ते तत्र राज- भयं भवेत् । विद्युता वा प्रदह्यन्ते तत्रापि नृपते- र्मयम् । धूमश्चानग्निजो यत्र तत्र विद्यान्महद्भवम् । विनाग्निं विस्फुलिङ्गाश्च दृश्यन्ते यत्र कुत्रचित् । त्रिरात्रोपोषितश्चात्र पुरोधाः सुसमाहितः । समिद्भिः क्षीरवृक्षष्णां सर्षपैस्तु घृतेन च । दद्यात् सुवर्णञ्च तथा द्विजेभ्यो गाश्चैव वस्त्राणि तथा भुवञ्च । एवं कृते पाप- मुपैति नाशं यदग्निवैकृत्यभवं द्विजेन्द्र”! वह्निपु० १०५ अ० । ६ तद्देवताके कृत्तिकानक्षत्रे ज्योतिपम् ।
शब्दकल्पद्रुमः
वह्निः || पुं, (वहति धरति हव्यं देवार्थमिति । वह + “वहिश्रिश्रुय्विति ।” उणा० ४ । ५१ । इति निः ।)
चित्रकः । भल्लातकः । (यथा, सुश्रुते चिकित्सितस्थाने ९ अध्याये । “मञ्जिष्ठाक्षौ वासको देवदारु पथ्यावह्नी व्योषधात्री विडङ्गम् ॥”)
निम्बूकः । इति राजनिर्घण्टः ॥ रेफः । इति तन्त्रम् ॥ अग्निः । इत्यमरः ॥ * ॥
तस्य नामानि यथा, —
“ते जातवेदसः सर्व्वे कल्माषः कुसुमस्तथा । दहनः शोषणश्चैव तर्पणश्च महाबलः । पिटरः पतगः स्वर्णस्त्वगाधो भ्राज एव च ॥” अन्यत्र तु नामान्तराण्युक्तानि यथा, —
“जृम्भकोद्दीपकश्चैव विभ्रमभ्रमशोभनाः । अवसथ्याहवनीयौ दक्षिणाग्निस्तथै व च । अन्वाहार्य्यो गार्हपत्य इत्येते दश वह्नयः ॥” अन्यैरन्यथोक्तानि यथा, —
“भ्राजको रञ्जकश्चैव क्लेदकः स्नेहकस्तथा । धारको बन्धकश्चैव द्रावकाख्यश्च सप्तधा । व्यापकः पावकश्चैव श्लेष्मको दशमः स्मृतः ॥” शरीरस्थवह्नेः स्थानानि यथा, —
“वह्नयो दोषदूष्येषु संलीना दश देहिनः ॥” दोषदूष्यौ यथा, —
“वातपित्तकफा दोषा दूष्याः स्युः सप्त धातवः ॥” इति सारदातिलकः ॥ तत्र निषिद्धकर्म्माणि यथा, —
“नाशुद्धोऽग्निं परिचरेत् न देवान् कीर्त्तयेदृषीन् । न चाग्निं लङ्घयेद्धीमान् नोपदध्यादधः क्वचित् ॥ न चैनं पादतः कुर्य्यात् मुखेन न धमेद्बुधः । अग्नौ न निःक्षिपेदग्निं नाद्भिः प्रशमयेत्तथा ॥ न वह्निं मुखनिश्वासैर्ज्वालयेन्नाशुचिर्ब्बुधः । स्वमग्निं नैव हस्तेन स्पृशेन्नापसु चिरं वसेत् ॥ नापक्षिपेन्नोपधमे न्न सूर्पेण च पाणिना । मुखेनाग्निं समिन्नीतं मुखादग्निरजायत ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ अस्योत्पत्तिर्यथा, — शौनक उवाच । “सर्व्वं श्रुतं महाभाग परिपूर्णं मनो मम । अधुना श्रीतुमिच्छामि वह्नेरुत्पत्तिमीप्सिताम् ॥ सूत उवाच । एकदा सृष्टिकाले च ब्रह्मानन्तमहेश्वराः । श्वेतद्बीपं ययुः सर्व्वे द्रष्टुं विष्णुं जगत्पतिम् ॥ परस्परञ्च संभाषां कृत्वा सिंहासनेषु च । ऊषुः सर्व्वे सभामध्ये सुरम्ये पुरतो हरेः ॥ विष्णुगात्रोद्भवास्तत्र कामिन्यः कमलाकलाः । तत्र नृत्यन्ति गायन्ति विष्णुगाथाश्च सुस्वरम् ॥ तासाञ्च कठिनां श्रोणिं कठिनं स्तनमण्डलम् । सस्मितं मुखपद्मञ्च दृष्ट्वा ब्रह्मा स कामुकः ॥ मनो निवारणं कर्त्तुं न शशाक पितामहः । वीर्य्यं पपात चच्छाद लज्जया वाससा विभुः ॥ तद्बीर्य्यं वस्त्रसहितं प्रतप्तं कामतापितः । क्षीरोदे प्रेरयामास सङ्गीते विरते द्विज ॥ जलादुत्थाय पुरुषः प्रज्वलन् ब्रह्मतेजसा । उवास ब्रह्मणः क्रोडे लज्जितस्य च संसदि ॥ एतस्मिन्नन्तरे रुष्टो जलादुत्थाय सत्वरः । प्रणम्य वरुणो देवान् बालं नेतुं समुद्यतः ॥ बालो दधार ब्रह्माणं बाहुभ्याञ्च भयाद्रुदन् । किञ्चिन्नोवाच जगतां विधाता लज्जया द्विज ॥ बालकस्य करे धृत्वा चकाराकर्षणं रुषा । वरुणश्च सभामध्ये तं चिक्षेप प्रजापतिः ॥ पपात दूरतो देवो वरुणो दुर्ब्बलस्तथा । मूर्च्छां संप्राप मृतवत् कोपदृष्ट्या विधेरहो ॥ चेतनं कारयामासामृतदृष्ट्या च शङ्करः । संप्राप्य चेतनां तत्र तमुवाच जलेश्वरः ॥ वरुण उवाच । बालो जले समुद्भूतो मम पुत्त्रोऽयमीप्सितः । अहं गृहीत्वा यास्यामि ब्रह्मा मां ताडयेत् कथम् ॥ ब्रह्मोवाच । बालकः शरणापन्नो मयि विष्णो महेश्वर । कथं दास्यामि भीतञ्च रुदन्तं शरणागतम् ॥ शरणागतदीनार्त्तं यो नं रक्षेदपण्डितः । पच्यते निरये तावद् यावच्चन्द्रदिवाकरौ ॥ उभयोर्व्वचनं श्रुत्वा प्रहस्य मधुसूदनः । उवाच सर्व्वतत्त्वज्ञः सर्व्वेशश्च यथोचितम् ॥ भगवानुवाच । दृष्ट्वा सुकामिनीश्रोणिं वीर्य्यं धातुः पपात तत् । लज्जया प्रेरयामास क्षीरोदे निर्म्मले जले ॥ ततो वभूब बालश्च धर्म्मतो विधिपुत्त्रकः । क्षेत्रजश्च सुतः शास्त्रे वरुणस्यापि गौणतः ॥ महादेव उवाच । यो विद्यायोनिसम्बन्वो वेदेषु च निरूपितः । शिष्ये पुत्त्रे च समता चेति वेदविदो विदुः ॥ मन्त्रं ददातु वरुणो विद्याञ्च बालकाय च । पुत्त्रो विधातुर्व्वह्निश्च शिष्यश्च वरुणस्य च ॥ विष्णुर्ददातु बालाय दाहिकां शक्तिमुल्वणाम् । सर्व्वदग्धो हुताशश्च निर्व्वाणो वरुणेन च ॥ विष्णुश्च दाहिकां शक्तिं ददौ तस्मै शिवाज्ञया । मन्त्रं विद्याञ्च वरुणो रत्नमालां मनोहराम् ॥ क्रोडे कृत्वा च तं बालं चुचुम्ब मायया सुरः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे वह्न्युत्पत्तिर्नाम १३० अध्यायः ॥ * ॥
तद्दाहनिवारणौषधानि यथा, —
“सामुद्रसैन्धवयवा विद्युद्दग्धा च मृत्तिका । तयानुलिप्तं यद्वेश्म नाग्निना दह्यते नृप ! ॥” इति मात्स्ये राजधर्म्मे राजरक्षानाम १९३ अः ॥ अग्निवैकृत्यं तच्छान्तिश्च यथा, —
“अनग्निर्दीप्यते यत्र राष्ट्रे यस्य निरिन्धनः । न दीप्यते चेन्धनवान् स राष्ट्रः पीड्यते नृपैः ॥ प्रज्वलेदप्सु मासं वा तथार्द्धञ्चापि किञ्चन । प्रासादतोरणद्वारं नृपवेश्म सुरालयम् ॥ एतानि यत्र दह्यन्ते तत्र राजभयं भवेत् । विद्युता वा प्रदह्यन्ते तत्रापि नृपतेर्भयम् ॥ धूमश्चानग्निजो यत्र तत्र विद्यान्महद्भयम् । विनाग्निं विस्फुलिङ्गाश्च दृश्यन्ते यत्र कुत्रचित् ॥ त्रिरात्रोपोषितश्चात्र पुरोधाः सुसमाहितः । समिद्भिः क्षीरवृक्षाणां सर्षपैस्तु घृतेन च ॥ दद्यात् सुवर्णञ्च तथा द्विजेभ्यो गाश्चैव वस्त्राणि तथा भुवञ्च । एवं कृते पापमुपैति नाशं यदग्निवैकृत्यभवं द्बिजेन्द्र ! ॥” इति तत्रैवाद्भुतशान्तिरग्निवैकृत्यं नाम २०५ अध्यायः ॥ * ॥
मुख्याग्नयो यथा, —
“गाहपत्यो दक्षिणाग्निस्तथैवाहवनीयकः । एतेऽग्नयस्त्रयो मुख्याः शेषाश्चोपसदस्त्रयः ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥
वह्निविप्रमध्यगमननिषेधो यथा, —
“द्वौ विप्रौ वह्निविप्रौ च दम्पत्योर्गुरुशिष्ययोः । हलाग्रे च न गन्तव्यं ब्रह्महत्या पदे पदे ॥” इति कर्म्मलोचनः ॥ * ॥
अपि च । “नाग्निब्राह्मणयोरन्तरा व्यपेयात् नाग्न्योर्न ब्राह्मणयोर्न गुरुशिष्ययोरनुज्ञया तु व्यपेयात् । इति तिथ्यादितत्त्वधृतवचनम् ॥ * ॥
अथ वह्नि- स्तम्भनम् । “मानुषस्य वसां गृह्य जलौकां तत्र पेषयेत् । हस्तौ तु लेपयेत्तेन अग्निस्तम्भनमुत्तमम् ॥ शाल्मलीरसमादाय स्वरमूत्रे निधाय तम् । अग्न्यागारे क्षिपेत्तेन अग्निस्तम्भनमुत्तमम् ॥ वायसी उदरं गृह्य मण्डूकवसया सह । गुडिकां कारयेत्तेन ततोऽग्निं प्रक्षिपेद्वशी ॥ एवमेतत्प्रयोगेण अग्निस्तम्भनमुत्तमम् । मण्डोतकवचायुक्तं मरीचं नागरं तथा ॥ चर्व्वित्वा च इमं सद्यो जिह्वया ज्वलनं लिहेत् ॥ गोरोचना भृङ्गराजं चूर्णं कृत्वा घृतं समम् । दिव्यस्तम्भश्च पीत्वा स्यान्मन्त्रेणानेन वै तथा ॥” ॐ अग्निस्तम्भनं कुरु । इति गारुडे १८६ अध्यायः ॥ (दैत्यविशेषः । यथा, महाभारते । १२ । २२७ । ५० । “वाणः कार्त्तस्वरो वह्निर्विश्वदंष्ट्रोऽथ नैरृतिः ॥” मित्रविन्दागर्भजातः कृष्णस्य पुत्त्रविशेषः । यथा, भागवते । १० । ६१ । १६ । “महांशः पावनो वह्निर्मित्रविन्दात्मजाः क्षुधिः ॥” तुर्व्वसुपुत्त्रः । यथा, हरिवंशे । ३२ । ११७ । “तुर्व्वसोस्तु सुतो वह्निर्गोभानुस्तस्य चात्मजः ॥” कुकुरपुत्त्रः । यथा, भागवते । ९ । २४ । १९ । “कुकुरस्य सुतो वह्निर्विलोमा तनयस्ततः ॥”)