वाचस्पत्यम्
वह्निकरी || स्त्री वह्निं देहस्थवह्निं करोति उद्दीपयति कृ—ट ङीप् । १ धातकीवृक्षे (धाइफुल) शब्द० । २ वह्न्युद्दीपके त्रि० ।
शब्दकल्पद्रुमः
वह्निकरी || स्त्री (वह्निं देहस्थवह्निं करोतीति । कृ + टः । ङीप् ।)
धात्रीश्वरी । इति शब्द- चन्द्रिका ॥ धाइ फुल इति भाषा ॥