संस्कृत-शब्दकोशः

वह्वृच् वाक

वा

वाचस्पत्यम्

वा ||‍ अव्य० वा—का । १ विकल्पे २ सादृश्ये ३ अवधारणे ४ समु- च्चये अमरः । एष्वर्थेषु गणरत्ने उदाहृतं यथा (विकल्पे) यवैर्वा व्रीहिभिर्वा यजेत । (उपमाने) सिन्धौ वाधो मण्डलं गोर्वा रसः” द्वन्द्वे (अवधारणे) “सा वा शम्भो- स्तदीया वा मूर्त्तिर्जलमयी मम” न तृतीयेत्यर्थः । (समुच्चये) वायुर्वा दहनो वा । ५ वितर्के ६ पादपुरणे च मेदि०


वाचस्पत्यम्

वा ||‍ गमने हिंसने (सूचने) च अदा० पर० सक० अनिट् । वाति अबासीत् ।


वाचस्पत्यम्

वा ||‍ सुखाप्तौ अक० गतौ सेवने च सक० चुरा० उभ० सेट् । वापयति ते अवीवपत् त ।


शब्दकल्पद्रुमः

वा || क सुखाप्तिगतिसेवासु । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सुखाप्तौ अक०-अन्यत्र सक०- सेट् ।)
क, वापयति । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वा || ल गमनहिंसयोः । इति कविकल्पद्रुमः ॥ (अदा०-पर०-सक०-सेट् ।)
ओष्ठ्यादिरप्यय- मित्येके । गमनमिह वायुकर्त्तृकमेव । ल, वाति वायुः । हिंसनं सूचनमिति चतुर्भुजः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वा || व्य, (वा + क्विप् ।)
विकल्पः । (यथा, मनुः । २ । ११२ । “धर्म्मार्थौयत्र न स्यातां शुश्रूषा वापि तद्बिधा । तत्र विद्या न वप्तव्या शुभं बीजमिवोषरे ॥”)
उपमा । (इवार्थे । यथा, रघुः । १९ । ५१ । “व्योम पश्चिमकलास्थितेन्दु वा पङ्कशेषमिव घर्म्मपल्वलम् ॥”)
वितर्कः । (यथा, महाभारते । १ । १५४ । २३ । “किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः । मामासादय दुर्ब्बुद्धे तरसा त्वं नराशन ! ॥”)
पादपूरणम् । (यथा, रामायणे । १ । २५ । ३ । “देवासुरगणान् वापि सगन्धर्व्वोरगान् भुवि । यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥”)
समुच्चयः । इति मेदिनी । वे, ७४ ॥ एवार्थः । इति विश्वः ॥ (यथा, किराते । ३ । १३ । “सुता न यूयं किमु तस्य राज्ञः सुयोधनं वा न गुणैरतीताः ॥”)



Correction: