संस्कृत-शब्दकोशः

वा वाःकिटि

वाक

वाचस्पत्यम्

वाक ||‍ पु० वच—घञ् । १ वचने “नमोवाकं प्रशास्महे” उत्तरराम- त्तरितम् । पृषो० सान्तत्वम् । ग्रन्थभेदे “वाकोवाक्येति- हासेत्यादि” छान्दोग्यम् । “वाकोवाक्यम् उक्तिप्रत्यु- क्तिरूपम्” भा० । वकस्येदम् तेषां समूहो वा अण् । ३ वकसम्बन्धिनि त्रि० । ४ वकसंघे न० अमरः ।


शब्दकल्पद्रुमः

वाकं || त्रि (वकस्येदमिति । वक + “तस्येदम् ।” ४ । ३ । १२० । इत्यण् ।)
वकसम्बन्धि । वक- स्येदं इत्यर्थे ष्णप्रत्ययेन निष्पन्नम् ॥ (क्ली, वकस्य समूहः । “तस्य समूहः ।” ४ । २ । ३७ । इत्यण् । वकसमूहः ॥ उच्यतेऽसौ अनेनेति वा । वच् + घञ् । वाक्यम् । यथा, उत्तरराम- चरिते । १ । १ । “इदं कविभ्यः पूर्ब्बेभ्यो नमो वाकं प्रशास्महे ॥” वेदभागविशेषः । यथा, महाभारते । १२ । ४७ । २५ । “यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च । गृणन्ति सत्यकर्म्माणं सत्यं स्रत्येषु सामसु ॥” पुं, वकस्यावयवो विकारो वा । प्राणित्वादञ् । वकावयवविशेषः ॥)



Correction: