संस्कृत-शब्दकोशः

वाक्कीर वाक्पति

वाक्छल

वाचस्पत्यम्

वाक्छल ||‍ न० गौत० सूत्रोक्ते छलभेदे “अविशेषाभिहितेऽर्थे वक्त्रभिप्रायादर्थान्तरकल्पनम् वाक्छलम्” गौ० सू० । शक्त्या एकार्थशाब्दबोधतात्पर्य्यकशब्दस्य शक्त्याऽर्था- न्तरबोधतात्पर्य्यकत्वकल्पना वाक्छलम्” वृत्तिः । यथा लेपालादागतोऽयं नवकम्बलवत्त्वात् इत्युक्ते कतोऽस्व सवसंख्यकाः कम्बला इत्युक्तिः ।


शब्दकल्पद्रुमः

वाक्छलं || क्ली (वाचा छलम् ।)
वाक्यव्याजः । यथा । वचनविघातोऽर्थविकल्पोपपत्त्या छलम् । तत्त्रिविधम् । वाक्छलम् । सामान्यच्छलम् । उपचारच्छलञ्च । अविशेषाभिहितेऽर्थे वक्वभि- प्रायादर्थान्तरकल्पना वाक्छलम् ॥ १ ॥ सम्भ- वतोऽर्थस्यातिसामान्ययोगात् असम्भूतार्थ- कल्पना सामान्यच्छलम् ॥ २ ॥ धर्म्मविकल्प- निद्दशे अर्थसद्भावनिषेध उपचारच्छलम् ॥ ३ ॥ इति गोतमसूत्रम् ॥ शक्यैकार्थशाब्दबोधतात्प- र्य्यकशब्दस्य शक्त्या अर्थान्तरतात्पर्य्यकत्वकल्प- नया दूषणाभिधानं वाक्छललक्षणम् । यथा । नेपालादागतोऽयं नवकम्बलवत्त्वात् । इत्युक्ते कुतोऽस्य नवसंख्यकाः कम्बलाः ॥ १ ॥ सामान्य- विशिष्टसम्भवदर्थाभिप्रायेण उक्तस्य सामान्य- योगादसम्भवदर्थकल्पनया दूषणाभिधानं सामान्यच्छलम् । यथा । ब्राह्मणोऽयं विद्या- चरणसम्पन्न इत्युक्ते ब्राह्मणत्वेन विद्याचरण- सम्पदं साधयति इति कल्पयित्वा परो वदति कुतो ब्राह्मणत्वेन विद्याचरणसम्पत् व्रात्ये व्यभि- चारात् ॥ २ ॥ शक्तिलक्षणयोरेकतरवृत्त्या यः प्रतिषेधः स उपचारच्छलम् । यथा । मञ्चाः क्रोशन्ति इत्यत्र मञ्चस्था एव क्रोशन्ति न तु मञ्चाः । एवं अहं नित्य इति शक्त्या प्रयुक्ते अमुकादुत्पन्नस्त्वं कथं नित्य इति प्रतिषेधोऽप्युप- चारच्छलम् ॥ ३ ॥ इति तट्टीका ॥ अपि च । “सर्व्वेष्वर्थविवादेषु वाक्छले नावसीदति । पशुस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते ॥” इति व्यवहारतत्त्वम् ॥



Correction: