वाचस्पत्यम्
वागीश्वर || पु० ६ त० । १ वृहस्पतौ २ गुरौ च ३ तत्पत्न्यां स्त्री ङीष् “वागीश्वरीमृतुस्नातां फुल्लेन्दीवरलोचनाम् । वागीश्वरेण संयुक्ताम्” इति तन्त्रम् । ४ सरस्वत्यां स्त्री ङीप् ५ मञ्जु घोषे पु० त्रिका० ।
शब्दकल्पद्रुमः
वागीश्वरः || पुं, (वाचामीश्वर इव ।)
मञ्जुघोषः । इति त्रिकाण्डशेषः ॥ (जैनविशेषः । इति च त्रिकाण्डशेषः । १ । १ । २३ ॥ बृहस्पतिः । ब्रह्मा । इति व्युत्पत्तिलब्धोऽर्थः ॥)
वाचा- मीश्वरे, त्रि । यथा, गारुडे १९६ अध्याये । “रुद्रामलकचूर्णं वै मधुतैलसमन्वितम् । जग्ध्वा मासं युवा स्याच्च नरो वागीश्वरो भवेत् ॥”