वाचस्पत्यम्
वाग्देवता || स्त्री वाचां देवता । सरस्वत्यां “वाग्देवता चरितचित्रितचित्तसद्मा” जयदेवः । वाग्देव्यादयोऽप्यत्र ।
शब्दकल्पद्रुमः
वाग्देवता || स्त्री (वाचां देवता ।)
सरस्वती । यथा, —
“पञ्चाशल्लिपिभिर्विभक्तमुखदोःपन्मध्यवक्षः- स्थलां भास्वन्मौलिनिबद्धचन्द्रशकलामापीनतुङ्ग- स्तनीम् । मुद्रामक्षगुणं सुधाठ्यकलसं विद्याञ्च हस्ता- म्बुजै- र्विभ्राणां विशदप्रभां त्रिनयनां वाग्देवता- माश्रये ॥” इति तन्त्रसारः ॥