शब्दकल्पद्रुमः
वाग्देवी || स्त्री (वाचां देवी ।) सरस्वती । इति त्रिकाण्डशेषः ॥ (यथा, राजतरङ्गिण्याम् । ५ । १६३ । “द्विजस्तयोर्नायकाख्यो गौरीशसुरसद्मनोः । चातुर्विद्यः कृतस्तेन वाग्देवी कुलमन्दि- रम् ॥”)