वाचस्पत्यम्
वाङ्मुख || न० ६ त० उपन्यासे प्रथमवाक्योपक्रमे अमरः ।
शब्दकल्पद्रुमः
वाङ्मुखं || क्ली (वाचां मुखमिव ।) उपन्यासः । इत्यमरः । १ । ६ । ९ ॥