वाचस्पत्यम्
वाचक || त्रि० वक्ति अभिधावृत्त्या बोधयति वच—ण्वुल् । “साक्षात् सङ्केतितं योऽर्थमभिधत्ते स वाचकः” इत्युक्ते १ शब्दभेदे २ कथके त्रि० । वाचयति वच—णिच्—ण्वुल् । ३ पुराणादिपाठके पु० “वाचकः पूजितो येनेति” पुरा० “ब्राह्मणं वाचकं विद्यान्नान्थवर्णजमादरात् । श्रुत्वान्य- वर्णजाद्राजन्! वाचकान्नरकं व्रजेत्” । तथा “देवार्च्चा- मग्रतः कृत्वा ब्राह्मणानां विशेषतः । ग्रन्थिञ्च शिथिलं कुर्य्याद्वाचकः कुरुनन्दन! । पुनर्बघ्नीत तत्सूत्रं न मुक्त्वा धारयेत् क्वचित् । हिरण्यं रजतं गाश्च तथा कांस्योपदो- हनाः । दत्त्वा तु वाचकायेह श्रुतस्याप्नाति तत् फलम्” । कांस्योपदोहनाः कांस्यक्रोडाः “वाचकः पूजितो येन प्रसन्नास्तस्य देवताः” । तथा “ज्ञात्वा पर्वसमाप्तिच्च पूजये- द्वाचकं बुधः । आत्मानमपि विक्रीय य इच्छेत् सुफलं क्रतुम्” । तथा “विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं तथा । कलस्वरसमायुक्तं रसभावसमन्वितम् । बुध्यमानः सदात्यर्थं ग्रन्थार्थं कृत्स्नशो नृप! । ब्राह्मणादिषु सर्वेषु ग्रन्थार्थं चार्पयेन्नृप! । य एवं वाचयेद् ब्रह्मन् म विप्रो व्यास उच्यते” । तथा “सप्तस्वरसमायुक्तं काले काले विशाम्पते! । प्रदर्शयन् रसान् सर्वान् वाचयेद् वाचको नृप” ति० त० । वाचकलक्षणादि हेमा० दा० नन्दिपु० उक्त यथा ||“वाचको ब्राह्मणः प्राज्ञः श्रुतशास्त्रो महामनाः । अभ्यस्ताक्षरविन्यासो वृत्तशास्वविशारदः । शब्दार्थवित् प्रगल्भश्च विनीतो मेधया पुनः । गीतिज्ञो वाक्य- लश्राव्यः स्वरेणाखिलभाषकः” इत्युपक्रमे एवंविधा- नतो वाच्यं वाचकेन विपश्चिता । तपःशमात्मकं मर्वं स्वर्गादिफलसाधकम् । शनैर्विबोध्य वै वाच्यमध्यात्मादि च यद् भवेत् । क्रुद्धोक्तियुद्धसंक्षोर्भ धारावर्त्तोन (वे- गेन) वाचयेत् । सरागं ललितैर्वाक्यैर्वाचयेत् वृद्धसङ्गमे । नानावृत्तानुरूपेण लालित्येन च वाचयेत् । सर्गाध्याये समाप्ते च कथापर्य्यन्त एव वा । प्रशस्तशब्दसंयोगे कुर्य्या- दिति विरामणम् । समाप्तौ वाचक्रो भीष्म! ब्रूयादेवं विचक्षणः । अवधार्य्य जगच्छान्तिमन्ते शान्त्युदकं सृजेत् । सुश्रुतं सुश्रुतं ब्रूयादस्तु व्याख्यातमित्यदः । लोकः प्रवर्त्ततां धर्मे राजा चास्तु सदा जती । धर्मवान् धनसम्पन्नो गुरुश्चात्र निरामयः । इति प्रोच्य यथा- ऽऽयातं गन्तव्यं च विभावतः ।
शब्दकल्पद्रुमः
वाचकः || पुं, (वक्ति अभिधावृत्त्या बोधयत्यर्थान् इति । वच् + ण्वुल् ।)
शब्दः । यथा । शास्त्रे शब्दस्तु वाचकः । इत्यमरः ॥ द्वे वाचके । प्रकृतिप्रत्ययद्वारेणार्थस्य वाचको गवादिरूपः शास्त्रे व्याकरणे तर्कादौ च शब्द उच्यते । लोके तु संस्वृतोऽसंस्कृतः शब्द उच्यते । वक्तीति वाचकः णकः । इति भरतः ॥ तत्पर्य्यायः । यथा । शब्दाभिलापौ त्वभिधाभिधानं वाचको ध्वनिः । ह्रासः कुहरितञ्चेति त्रिकाण्ड- शेषः ॥ * ॥
(तल्लक्षणं यदुक्तं मुग्धबोधटीकायां दुर्गादासः । “साक्षात् सङ्केतितं योऽर्थमभिधत्त स वाचकः ॥ * ॥
वाचयतीति । वच् + णिच् + ल्वुल् ।)
कथकः । पुराणादिपाठकः । यथा, —
“ब्राह्मणं वाचकं विद्यान्नान्यवर्णजमादरात् । श्रुत्वान्यवर्णजाद्राजन् वाचकान्नरकं व्रजेत् ॥” तथा । “देवार्च्चामग्रतः कृत्वा ब्राह्मणानां विशेषतः । ग्रन्थिञ्च शिथिलं कुर्य्याद्वाचकः कुरुनन्दन ! । पुनर्ब्बध्नीत तत् सूत्रं न मुक्त्वा धारयेत् क्वचित् ॥ हिरण्यं रजतं गाश्च तथा कांस्योपदोहनाः । दत्त्वा तु वाचकायेह श्रुतस्याप्नोति तत्फलम् ॥” कांस्योपदोहनाः कांस्यक्रोडाः । “वाचकः पूजितो शेन प्रसन्नास्तस्य देवताः ॥” तथा । “ज्ञात्वा पर्व्वसमाप्तिञ्च पूजयेद्वाचकं बुधः । आत्मानमपि विक्रीय य इच्छेत् सफलं क्रतुम् ॥” तथा । “विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं तथा । कलस्वरसमायुक्तं रसभावसमन्वितम् ॥ बुध्यमानः सदात्यर्थं ग्रन्थार्थं कृत्स्नशो नृप । ब्राह्मणादिषु सर्व्वेषु ग्रन्थार्थं चार्पयेन्नृप ! । य एवं वाचयेद्ब्रह्मन् स विप्रो व्यास उच्यते ॥” तथा । “सप्तस्वरसमायुक्तं काले काले विशाम्पते । प्रदर्शयन् रसान् सर्व्वान् वाचयेद्वाचको नृप ! ॥” इति तिथ्यादितत्त्वम् ॥