संस्कृत-शब्दकोशः

वाचक वाचनक

वाचन

वाचस्पत्यम्

वाचन ||‍ न० वच—णिच्—स्वार्थे वा णिच्—ल्युट् । १ पठने २ कथने च युच् । पठने स्त्री ।


शब्दकल्पद्रुमः

वाचनं || क्ली (वच् + णिच् + ल्युट् ।)
पठनम् । यथा, —
“शुद्धे नानन्यचित्तेन पठितव्यं प्रयत्नतः । न कार्य्यासक्तमनसा कार्य्यं स्तोत्रस्य वाचनम् ॥” इति वाराहीतन्त्रम् ॥ तथा । “दानवाचनान्वारम्भवरणव्रतप्रमाणेषु यजमानं प्रतीयात् ॥” इति कात्यायनसूत्रम् ॥ (प्रति- पादनम् । यथा, साहित्यदर्पणे १० परिच्छेदे । “शब्दैः स्वभावादेकार्थैः श्लेषोऽनेकार्थवाच- नम् ॥”)



Correction: