वाचस्पत्यम्
वाचाठ || त्रि० वाक् + कुत्सायां वाहुल्येऽस्त्यर्थे आटच् भत्वात् न कः । कुत्सितबहुभाषिणि अमरः । आलच् । वाचालोऽप्यत्र ।