संस्कृत-शब्दकोशः

वाचाठ वाचिक

वाचाल

शब्दकल्पद्रुमः

वाचालः || त्रि (बहु कुत्सितं भाषते इति । वाच् + “आलजाटचौ बहुभाषिणि ।” ५ । २ । १२५ । इति आलच् ।)
बहुकुत्सितभाषी । तत्पर्य्यायः । जल्पाकः २ वाचाटः ३ । इत्यमरः ॥ सुबहु- भाषिण्यपि जल्पाकादयस्त्रयो वर्त्तन्ते वाचाटो वाचालो जल्पाकः सुबहुभाषी स्यादिति श्लोकार्द्धपर्य्याये वोपालितः । नित्यप्रगल्भ- वाचालामुपतिष्ठे सरस्वतीम् । इति मुरारि- रिति तट्टीकायां भरतः ॥ (यथा, कथा- सरित्सागरे । ४० । ३४ । “वाचालैः कलहः क्लीवैस्त्रपाकृद्बाहुशालि- नाम् ॥”)



Correction: