वाचस्पत्यम्
वाचिक || त्रि० वाचा कृतम् वाच् + ठक् भत्वात् न कः । वाक्य- निष्पादिते पापादौ वाङ्मयशब्दे दृश्यम् । २ वाक्या- रम्भभेदे । “आलापश्च विलापश्च संलापश्च प्रलापकः । अनुलापोऽपलापश्च सन्देशश्चातिदेशिकः । अपदेशोपदेशौ च निर्देशो व्यपदेशकः । कीर्त्तिता वचनारम्भा द्वाद- शामी मनीषिभिः” उज्ज्वलमणिः ।
शब्दकल्पद्रुमः
वाचिकं || त्रि (वाच् + ठक् ।)
वाचा कृतम् । यथा, —
“शरीरजैः कर्म्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥” इति प्रायश्चित्ततत्त्वम् ॥ अपि च । “कायिकं वाचिकञ्चैव मानसं यच्च दुष्कृतम् । एकजप्येन तत् सर्व्वं प्रणश्यति ममाग्रतः ॥” इति शाम्बपुराणे सूर्य्यस्तोत्रम् ॥ अन्यच्च । कायिकं मानसञ्च नमस्कारं हित्वा आचार्य्येण कथं वाचिको नमस्कारः कृतः । इति मुग्धबोधटीकायां दुर्गादासः ॥ (वागेव । वाक् + “वाचो व्याहृतार्थायाम् ।” ५ । ४ । ३५ । इति ठक् । सन्देशोक्तौ, क्ली । इति हारावली । १६६ ॥ यथा, राजतरङ्गिण्याम् । ६ । ३५ । “भृत्यमेकं बणिग्वेश्म प्राहिणोद्दत्तवाचिकम् ॥”)
शब्दकल्पद्रुमः
वाचिकः || पुं, (वाचा निष्पन्नः । वाच् + ठक् ।)
वाक्यारम्भः । यथा, —
“आलापश्च विलापश्च संलापश्च प्रलापकः । अनुलापोऽपलापश्च सन्देशश्चातिदेशिकः ॥ अपदेशोपदेशौ च निर्द्देशो व्यपदेशकः । कीर्त्तिता वचनारम्भाद्द्बादशामी मनी- षिभिः ॥” इत्युज्ज्वलनीलमणिः ॥