वाचस्पत्यम्
वाच्(चा) || स्त्री उच्यतेऽसौ अनया वा वच—क्विप् नि० वा टाप् । १ वाक्ये अमरः २ वागिन्द्रिये च ।
शब्दकल्पद्रुमः
वाक् || [च्], स्त्री, (उच्यतेऽसौ अनया वेति । वच् + “क्विप् वचिप्रच्छीति ।” उणा० २ । ५७ । इति क्विप् दीर्घोऽसम्प्रसारणञ्च ।)
वाक्यम् । (यथा, मनुः । २ । १५९ । “अहिंसयैव भूतानां कार्य्यं श्रेयोऽनुशासनम् । वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्म्म- मिच्छता ॥”)
सरस्वती । इत्यमरः ॥ (यथा, कथासरित्- सागरे । १ । ३ । “प्रणम्य वाचं निःशेषपदार्थोद्द्योतदीपिकाम् । बृहत्कथायाः सारस्य संग्रहं रचयाम्यहम् ॥”)