वाचस्पत्यम्
वाछ || कामे भ्वा० पर० सक० सेट इदित् । वाञ्छति अवाञ्छीत् । भावे—अ । वाञ्छा ।
शब्दकल्पद्रुमः
वाछ || इ कामे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) इ, वाञ्छ्यते । इति दुर्गादासः ॥