संस्कृत-शब्दकोशः

वाच्छ वाज

वाच्य

वाचस्पत्यम्

वाच्य ||‍ न० वच—भावे ण्यत् न कः । १ दूषणे २ प्रतिपादने धरणिः । २ कथने च । कर्मणि ण्यत् । ४ दूष्ये ५ प्रतिपाद्ये अभिधया बोध्यार्थे च सा० द० । “नचाल्पत्वबहुत्वाभ्यां प्रयोगाणां विशिष्यते । वाच्य- वाचकभावोऽयमक्षपादादिशब्दवत् । विभीतकेऽप्यक्षशब्दो यद्यप्यल्पैः प्रयुज्यते । तथापि वाचकस्तस्य ज्ञायते शकटाङ्गवत्” म० त० भट्टवा० ।


शब्दकल्पद्रुमः

वाच्यं || क्ली (वच् + ण्यत् ।)
प्रतिपादनम् । दूष- णम् । इति धरणिः ॥ (यथा, —
“परवाच्येषु निपुणः सर्व्वो भवति सर्व्वदा ॥”)


शब्दकल्पद्रुमः

वाच्यं || त्रि (उच्यते इति । वच् + ण्यत् । “वचो- ऽशब्दसंज्ञायाम् ।” इति न कुत्वम् ।)
कुत्- सितम् । हीनम् । वचनार्हम् । इति मेदिनी । ये, ५५ ॥ (यदुक्तम् । “शत्रोरपि गुणा वाच्या दोषा वाच्या गुरो- रपि ॥”)
शक्यम् । यथा, —
“न चाल्पत्वबहुत्वाभ्यां प्रयोगाणां विशिष्यते । वाच्यवाचकभावोऽयमक्षपादादिशब्दवत् ॥ विभीतकेऽप्यक्षशब्दो यद्यप्यल्पैः प्रयुज्यते । तथापि वाचकस्तस्य ज्ञायते शकटाङ्गवत् ॥” इति मलमासतत्त्वधृतभट्टवार्त्तिकवचनम् ॥ अपि च । “अर्थो वाच्यश्च लक्ष्यश्च व्यङ्ग्यश्चेति त्रिधा मतः ।” एषां स्वरूपमाह । “वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः । व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः ॥” इति साहित्यदर्पणे २ परिच्छेदः ॥



Correction: