वाचस्पत्यम्
वाजिन || पु० वाजिभ्यो देयम् अण् । आमिक्षानिःसृतजले “तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्” इति श्रुतिः ।
शब्दकल्पद्रुमः
वाजिनं || क्ली आमिक्षामस्तु । इति हेमचन्द्र- त्रिकाण्डशेषौ ॥ छानार जल इति भाषा ॥ (यथा, वाजसनेयसंहितायाम् । १९ । २१ । “सोमस्य रूपं हविष आमिक्षा वाजिनं मधु ॥” अस्य गुणाः प्रस्तुतिनियमश्च यथा, —
“दध्ना तक्रेण वा नष्टं दुग्धं बद्धं सुवाससा । नष्टदुग्धभवन्नीरं मोरटञ्जेज्जटोऽब्रवीत् ॥ मुखशोषतृषादाहरक्तपित्तज्वरप्रणुत् । लघुर्बलकरो रुच्यो मोरटः स्यात् सितायुतः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ हविः । यथा, वाजसनेयसंहितायाम् । २९ । १ । “वाजी वहन् वाजिनम् ।” “वाजिनं हविः ।” इति तद्भाष्ये महीधरः ॥ * ॥
पुं, अर्थः । यथा, ऋग्वेदे । १० । ७१ । ५ । “नैनं हिन्वन्त्यपि वाजिनेषु ॥” “वाक् इना ईश्वरा येषाम् ।” इति सायणः ॥)