संस्कृत-शब्दकोशः

वाजिन वाजिन्

वाजिनी

शब्दकल्पद्रुमः

वाजिनी || स्त्री अश्वगन्धा । घोटकी । शेषस्य पर्य्यायः । वडवा २ वामी ३ प्रसूका ४ आर्त्तवी ५ । अस्याः क्षीरगुणाः । “अश्वाक्षीरन्तु रूक्षाम्लं लवणं दीपणं लघु । देहस्थैर्य्यकरं बल्यं गौरवं कान्तिकृत् परम् ॥” तद्दधिगुणाः । “आश्वं दधि स्यान्मधुरं कषायं कफार्त्तिमूर्च्छामयहारि रूक्षम् । वाताल्पदं दीपनकारि नेत्र- दोषापहं तत् कथितं पृथिव्याम् ॥” * ॥
तन्नवनीतगुणाः । “आश्वन्तु नवनीतं स्यात् कषायं कफकासजित् । चक्षुष्यं कटुकञ्चोष्णमीषद्वातापहारकम् ॥” तद्घृतगुणाः । “अश्वासर्पिस्तु कटुकं मधुरञ्च कषायकम् । ईषद्दीपनदं मूर्च्छाहारि वाताल्पदं गुरु ॥” इति राजनिर्घण्टः ॥ * ॥
अपि च । “रूक्षोष्णं वडवाक्षीरं बल्यं श्वासानिलापहम् । अम्लं कटु लघु स्वादु सर्व्वमैकशफं तथा ॥” इति भावप्रकाशः ॥



Correction: