संस्कृत-शब्दकोशः

वाजिनी वाजिपृष्ठ

वाजिन्

वाचस्पत्यम्

वाजिन् ||‍ पु० वाजः वेमः पक्षो वा अस्त्यस्य इनि । १ घोटके २ वाणे ३ वासके च शब्दर० । ४ वेभवति त्रि० स्वियां ङीप् । मा म । ५ अश्वगन्धायथ ६ प्राठक्याम् स्त्री राजनि० । ७ देवभेदे पु० । वाजिनशब्दे दृश्यम् ।


शब्दकल्पद्रुमः

वाजी || [न्] पुं, (वाजी वेगोऽस्त्यस्येति । वाज + इनिः ।)
घोटकः । (यथा, रघुः । ३ । ४३ । “शतैस्तमक्ष्णामनिमेषवृत्तिभि- र्हरिं विदित्वा हरिभिश्च वाजिभिः ॥” वाजः पक्षोऽस्त्यस्येति ।)
बाणः । पक्षी । इत्य- मरः ॥ वासकः । इति शब्दरत्नावली ॥ (वजति गच्छतीति । वज् + णिनिः । त्रि, चलनवान् यथा, वाजसनेयसंहितायाम् । २९ । १ । “वाजी वहन्वाजिनं जातवेदो देवानां वक्षि- प्रियमासधस्थम् ॥” “वजति वाजी । वजगतौ चलनवान् ।” इति तद्भाष्ये महीधरः ॥ * ॥
वाजमन्नमस्यास्तीति अन्नवान् । यथा, ऋग्वेदे । ३ । २ । १४ । “तमीमहे नमसा वाजिनं बृहत् ॥” “वाजिनं अन्नवन्तम् ।” इति तद्धाष्ये सायणः ॥ वाजः पक्षोऽस्त्यस्येति । पक्षविशिष्टः । यथा, भागवते । ४ । ७ । १६ । “मुष्णंस्तेज उपानीतस्तार्क्ष्येण स्तोत्र- बाजिना ॥”)



Correction: