संस्कृत-शब्दकोशः

वाजिशाला वाञ्छा

वाजीकरण

वाचस्पत्यम्

वाजीकरण ||‍ न० अवाजी वाजीव क्रियतेऽनेन वाजिन् + च्वि कृ—ल्युट् । “यद्द्रव्यं पुरुषं कुर्य्यात् वाजिवत् सुरत- क्षमम् । तद्वाजीकरणं ख्यातम्” इत्युक्ते वीर्य्यवृद्धि- करणे औषधभेदे । सुश्रुते दृश्यम् ।


शब्दकल्पद्रुमः

वाजीकरणं || क्ली (अवाजी वाजीव क्रियतेऽनं- नेति । कृ + ल्युट् । अभूततद्भावे च्विः ।)
वीर्य्य- वृद्धिकरम् । इति राजनिर्घण्टः ॥ वाजी- करणद्रव्यस्य लक्षणमाह । “यद्द्रव्यं पुरुषं कुर्य्यात् वाजिवत् सुरतक्षमम् तद्वाजीकरमाख्यातं मुनिभिर्भिषजां वरैः ॥” अत्र प्रसङ्गात् क्लैवस्य लक्षणं संख्या निदान- ञ्चाह । “क्लीवः स्यात् सुरताशक्तस्तद्भावः क्लैव्यमुच्यते । तच्च सप्तविधं प्रोक्तं निदानं तस्य कथ्यते तैस्तैर्भावैरहृद्यैस्तु रिरंसोर्मनसि क्षते । ध्वजः पतत्यतो नॄणां क्लैव्यं समुपजायते ॥ द्वेष्यस्त्रीसंप्रयोगाच्च क्लैव्यं तन्मानसं स्मृतम् ॥” तैस्तैर्भावैर्भयशोकक्रोधादिभिः । अहृद्यैः हृद- याहितैः दुःखदत्वात् । क्षते पीडिते अस्वस्थी- कृत इति यावत् । ध्वजः शिश्नः । पतति न तून्न- मति । संप्रयोगो मैथुनम् ॥ १ ॥ “कटुकाम्लोष्णलवणैरतिमात्रोपसेवितैः । पित्ताच्छुक्रक्षयो दृष्टः क्लैव्यं तस्मात् प्रजायते ॥” कटुकादिनातिमात्रेण प्रवृद्धेन पित्तेन शुक्रस्य दग्धत्वात् क्लैव्यं भवति । पित्तजमेतद्द्विती- यम् ॥ २ ॥ “अतिव्यवायशीलो यो न च बाजीक्रियारतः । ध्वजभङ्गमवाप्नोति स शुक्रक्षयहेतुकम् ॥” शुक्रक्षयजं तृतीयम् ॥ ३ ॥ “महता मेढ्ररोगेण चतुर्थी क्लीवता भवेत् । ४ । वीर्य्यवाहिशिराछेदान्मेहनानुन्नतिर्भवेत् ॥ ५ ॥ बलिनः क्षुब्धमनसो निरोधाद्ब्रह्मचर्य्यतः । षष्ठं क्लैव्यं स्मृतं तत्तु शुक्रस्तम्भनिमित्तकम् ॥” बलिनः पुष्टस्य पुरुषस्य क्षुब्धमनसः कामात् सञ्चलितस्य । मनसः ब्रह्मचर्य्यतो निरोधात् क्लैव्यं भवति ॥ ६ ॥ “जन्मप्रभृति यत् क्लैव्यं सहजं तद्धि सप्तमम् ॥” ७ असाध्यं क्लैव्यमाह । “असाध्यं सहजं क्लैव्यं मर्म्मच्छेदाच्च यद्भवेत् ।” मर्म्मच्छेदात् वीर्य्यवाहिशिराच्छेदात् ॥” * ॥
अथ क्लैव्यस्य चिकित्सायां वाजीकरणविधि- माह । “नरो वाजीकरान् योगान् सम्यक् शुद्धौ निरामयः । सप्तत्यन्तं प्रकुर्व्वीत वर्षादूर्द्ध्वन्तु षोडशात् ॥ न च वै षोडशादर्व्वाक् सप्तत्याः परतो न च । आयुष्कामो नरः स्त्रीभिः संयोगं कर्त्तुमर्हति ॥ क्षयवृद्ध्युपदंशाद्या घोराश्चातीवदुर्ज्जयाः । अकालमरणञ्च स्याद्भजतस्त्रियमन्यथा ॥ विलासिनामर्थवतां रूपयौवनशालिनाम् । नराणां बहुभार्य्याणां विधिर्वाजीकरो हितः ॥ स्थविराणां रिरंसूनां स्त्रीणां वाल्लभ्यमिच्छ- ताम् । योषित्प्रसङ्गात् क्षीणानां क्लीवानामल्परेतसाम् ॥ हिता वाजीकरा योगाः प्रीत्यपत्यबलप्रदाः । एतेऽपि पुष्टदेहानां सेव्याः कालाद्यपेक्षया ॥” वाजीकराण्याह । “भोजनानि विचित्राणि पानानि विविधानि च । वाचः श्रोत्राभिरामाश्च त्वचः स्पर्शसुखावहाः । यामिनी सेन्दुतिलका कामिनी नवयौवना । गीतं श्रोत्रमनोहारि ताम्बूलं मदिरा स्रजः ॥ गन्धा मनोज्ञा रूपाणि चित्राण्युपवनानि च । मनसश्चाप्रतीघातो वाजीकुर्व्वन्ति मानवम् ॥ माक्षीकधातुमधुपारदलोहचूर्णं पथ्याशिलाजतुविडङ्गघृतानि लिह्येत् । एकाग्रविंशतिदिनानि गदार्द्दितोऽपि सोऽशीतिकोऽपि रमयेत् प्रमदा युवेव ॥ गवां बिरूढवत्मानां सिद्धं पयसि पायसम् । गोधूमचूर्णञ्च तथा सितामधुघृतान्वितम् । भुक्त्वा हृष्यति जीर्णोऽपि दशदारान् व्रजत्यपि ॥” अथ रसाला । “दध्नार्द्धाढकमीषदम्लमधुरं खण्डस्य चन्द्रद्युतेः प्रस्थं क्षौद्रपलञ्च पञ्च हविषः शुण्ठ्याश्चतुर्माष- कान् । एलामासचतुष्टयं मरिचतः कर्षं लवङ्गं तथा धृत्वा शुक्लपटे शनैः करतलेनोन्मथ्य विस्रा- वयेत् ॥ मृद्भाण्डे मृगनाभिचन्दनरसस्पृष्टेऽगुरूद्धूपिते कर्पूरेण सुगन्धिकं तदखिलं संलोड्य संस्था- पयेत् । स्वस्यार्थे मथुरेश्वरेण रचिता ह्येषा रसाला स्वयं भोक्तुर्मन्मथदीपनी सुखकरी कान्तेव नित्यं प्रिया ॥ * ॥
गोक्षुरेक्षुरबीजानि वाजिगन्धा शतावरी । मुषली वानरीबीजं यष्टी नागवला वला ॥ एषां चूर्णं दुग्धसिद्धं गव्येनाज्येन भर्जितम् । सितया मोदकं कृत्वा भक्ष्यं वाजीकरं परम् ॥ चूर्णादष्टगुणं क्षीरं घृतं चूर्णसमं स्मृतम् । सर्व्वतो द्विगुणं खण्डं खादेदग्निबलं यथा ॥ वाजीकराणि भूरीणि संगृह्य रचितो यतः । तस्माद्बहुषु योगेषु योगोऽयं प्रवरो मतः ॥” रतिवर्द्धनो मोदकः ॥ * ॥
“पिप्पलीलवणोपेते वस्ताण्डे घृतसाधिते । कच्छपस्याथ वा खादेत्ते तु वाजीकरे भृशम् ॥ पूगं दक्षिणदेशजं दशपलोन्मानं भृशं कर्त्तयेत् तच्छिन्नं जलयोगतो मृदुतरं संकुट्य चूर्णी- कृतम् । तच्चूर्णं पटशोधितं वसुगुणे गोशुद्धदुग्धे पचेत् गव्याज्याञ्जलिसंयुतेऽतिनिविडे दद्यात्तुलार्द्धां सिताम् ॥ पक्वं तजज्वलनात् क्षितिं प्रतिनयेत् तस्मिन् पुनः प्रक्षिपेत् दद्यात्तत्तदुदाहरामि बहुला दृष्ट्वादरात् संहिताः । एला नागवला वला सचपला जातीफला- लिङ्गिका जातीपत्रसुपत्रचित्रकयुतं तच्च त्वचा संयुतम् ॥ विश्वावीरणवारिवारिदवरा वांशी वरी वानरी- द्राक्षा सेक्षुरगोक्षुराथ महती खर्ज्जूरिका क्षीरिका । धान्याकं सकसेरुकं समधुकं शृङ्गाटकं जीरकं पृथ्वीक्वाथयवानिका वरटिका मांसी मिसि- र्मेथिका ॥ कन्देष्वत्र विदारिकाथ मुषली गन्धर्व्वगन्धा तथा कर्व्वूरं करिकेशरं समरिचञ्चारस्य बीजं नवम् । बीजं शाल्मलिसम्भवं करिकणा बीजञ्च राजी- वजं श्वेतं चन्दनमत्र रक्तमपि च श्रीसङ्गपुष्पैः समम् ॥ सर्व्वञ्चेति पृथक् पृथक् पलमितं संचूर्ण्य तत्र क्षिपेत् सूतं वङ्गभुजङ्गलोहगगनं सम्मारितं स्वेच्छया । कस्तूरी घनसारचूर्णमपि च प्राप्तं यथा प्रक्षिपेत् पश्चादस्य तु मोदकान् विरचयेद्विल्वप्रमाणा- नथ ॥ तान् भोक्ताति सदा यथानलबलं भुञ्जीत नाम्लं रसं पूर्व्वस्मिन्नशिते गते परिणतिं प्राग्भोजनात् भक्षयेत् । नित्यं श्रीरतिवल्लभाख्यकमिमं यः पूगपाकं भजेत् स स्याद्वीर्य्यविवृद्धिवृद्धमदनो वाजीव शक्तो रतौ ॥ दीप्ताग्निर्ब्बलवान् बली विरहितो हृष्टः स पुष्टः सदा वृद्धो योऽपि युवेव सोऽपि रुचिरः पूर्णेन्दुवत् सुन्दरः ॥” वसुगुणे अष्टगुणे । अञ्जलिरर्द्धशरावम् । तुलार्द्धां पञ्चाशत्पलमिताम् । संहिताः सुश्रुताद्याः । नागवला गुरसकरी गुरखण्डी इति च लोके । वला वहंलियार तस्या मूलत्वक् । चपला पिप्पली । जातीपत्रकं जाइपत्री । विश्वा शुण्ठी । वीरणं एतस्य मूलं उशीरं ग्राह्यम् । वारि सुगन्धवाला । वारिदः मुस्तकः । वरा त्रिफला वांशी वंशरोचना । वरी शतावरी । वानरी कपिकच्छूस्तस्या बीजं ग्राह्यम् । इक्षुरः कोकिलाक्षः तस्य बीजम् । गोक्षुरस्यापि बीजम् । महती खर्ज्जूरिका छोहारा । क्षीरिका क्षीरी । पृथ्वीका कारवी मगरैला इति लोके । वराटिका वररै इति लोके । शालूक- मेषां कन्दः स्याद्वीजकोषो वराटिका । मांसी जटामांसी । मिसिः सौफः । गन्धर्व्वगन्धा अश्व- गन्धा तस्या मूलम् । श्रीसंज्ञं लवङ्गम् । घन- सारः कर्पूरः । विल्वप्रमाणान् पलप्रमाणान् । रतिवल्लभाख्यपूगपाकः ॥ * ॥
“एतस्मिन्रतिवल्लभे यदि पुनः सम्यक् खुरा- शाणिका धुस्तूरस्य तु बीजमर्ककरभा यासोऽब्धिशोष- स्तथा । सन्माजूफलवं तथा स्वसफलत्वक् वापि निःचि प्यते चूर्णार्द्धा विजया तदा स हि भवेत् कारेश्वरः संज्ञया ॥” इति महाकामेश्वरः ॥ * ॥
“रक्तपित्ताधिकारोक्तः खण्डकुष्माण्डको महान् । रक्तपित्तादिरोगघ्नो महावाजीकरः स्मृतः ॥ * ॥
पक्वाम्रस्य रसे द्रोणे सितामाढकसंमिताम् । घृतप्रस्थमिदं दद्यान्नागरस्य पलाष्टकम् ॥ मरिचं कुडवोन्मानं पिप्पलीद्विपलोन्मितम् । सलिलस्याढकं दत्त्वा सर्व्वमेकत्र कारयेत् ॥ पचेत्तन्मृण्मये पात्रे दारुदर्व्व्या प्रचालयेत् । चूर्णान्येषां क्षिपेत्तत्र घनीभूतेऽवतारिते ॥ धान्यकं जीरकं पत्रं चित्रकं मुस्तकं त्वचम् । बृहज्जीरकमप्यत्र ग्रन्थिकं नागकेशरम् ॥ एलाबीजं लवङ्गञ्च पृथक् जातीफलं पलम् । सिद्धं शीते प्रदद्याच्च मधुनः कुडवद्वयम् ॥ भक्षयेद्भोजनादर्व्वाक् पलमात्रमिदं नरः । अथवा नियता नात्र मात्रा खादेद्यथानलम् ॥ मानवः सेवनादस्य वाजीव सुरते भवेत् । समर्थो बलवान् पुष्टो हृष्टो नित्यं निरामयः ॥ ग्रहणीं नाशयेदेष क्षयं श्वासमरोचकम् । अम्लपित्तञ्च पित्तञ्च रक्तपित्तञ्च पाण्डुताम् ॥” बृहज्जीरकं नानागरैला । इति आम्रपाकः ॥ “शमयति गोक्षुरचूर्णं छागक्षीरेण साधितं समधु । भुक्तं क्षपयति जाड्यं यज्जनितं कुप्रयोगेण ॥ द्रव्याणि चन्दनादिस्तु चन्दनं रक्तचन्दनम् । पत्तङ्गमथ कालीयागुरुकृष्णागुरूणि च ॥ देवद्रुमः ससरलः पद्मकं तुणिकोऽपि च । कर्पूरो मृगनाभिश्च लताकस्तूरिकापि च ॥ सिह्लकः कुङ्कुमं नव्यं जातीफलकमत्र च । जातीपत्रं लवङ्गञ्च सूक्ष्मैला महती च सा ॥ कक्कोलफलकं त्वक् च पत्रकं नागकेशरम् । बालकञ्च तथोशीरं मांसी दारु सितापि वा ॥ मुरा कर्पूरकश्चापि शैलेयं भद्रमुस्तकम् । रेण्डका च प्रियङ्गुश्च श्रीवासो गुग्गुलुस्तथा ॥ लाक्षा नस्वश्च रालश्च धातकीकुसुमं तथा । ग्रन्थिपणञ्च मञ्जिष्ठा तगरं सिक्थकं तथा ॥ एतानि शाणमानानि कल्कीकृत्य शनैः पचेत् । तैलं प्रस्थमितं सम्यक् एतत्पात्रे शुभे क्षिपेत् ॥ अनेनाभ्यक्तगात्रस्तु वृद्धोऽशीतिशमोऽपि यः । शुभ्रो भवति शुक्राढ्यः स्त्रीणामत्यन्तवल्लभः ॥ बन्ध्यापि लभते गर्भं षण्डोऽपि तरुणायते । अपुत्त्रः पुत्त्रमाप्नोति जीवेच्च शरदां शतम् ॥ चन्दनादिमहातैलं रक्तपित्तं क्षयं ज्वरम् । दाहप्रस्वेददौर्गन्ध्यं कुष्ठं कण्डुं विनाशयेत् ॥” पत्तङ्गं वकम् इति लोके । कालीयं कलम्बक इति लोके । लताकस्तूरिका मुषुकदाना इति लोके । कक्कोलफलस्याभावे जातीपुष्पं ग्राह्यम् । तदलाभेऽपि लवङ्गं ग्राह्यम् । दारुशिता दारु- चिनी । शैलेयं छरा इति लोके । श्रीवासः गुगुरी इति लोके । ग्रन्थिपर्णः गठिवन् इति लोक । अशीतिसमः अशीतिवार्षिकः । इति चन्दनादितैलम् ॥ * ॥
“बीजानि कीशकच्छ्वाः कुडवमितानि स्वेदये- च्छनकैः । प्रस्थे गोभवदुग्धे दुग्धं यावद्भवेद्गाढम् ॥ त्वग्रहितानि च कृत्वा सूक्ष्मं संपेषयेत्तानि । पिष्टिकया लघुवटिकाः कृत्वा गव्ये पचेदाज्ये ॥ द्विगुणितशर्करया वा वटिकाः संपक्वया लेप्याः । वटिका माक्षिकमध्ये मज्जनयोग्येऽखिलाः स्थाप्याः ॥ पञ्चटङ्कमितास्तास्तु सायं प्रातश्च भक्षयेत् । अनेन शीघ्रद्रावी यो यश्च स्यात् पतितध्वजः ॥ सोऽपि प्राप्नोति सुरते सामर्थ्यमिति वाजिवत् । नानेन सदृशं किञ्चित् द्रव्यं वाजीकरं परम् ॥” इति वानरीवटिका ॥ * ॥
“आकारकरभा शुण्ठी लवणं कुङ्कुमं कणा । जातीफलं जातिपुष्पं चन्दनं कार्षिकं पृथक् ॥ चूर्णयेदहिफेणन्तु तत्र दद्यात् पलोन्मितम् । सर्व्वमेकीकृतं माषमात्रं क्षौद्रेण भक्षयेत् ॥” शुक्रस्तम्भकरं पुंसामिदमानन्दकारकम् । नारीनां प्रीतिजनकं सेवेत निशि कामुकः ॥ इति भावप्रकाशः ॥ (यथा च । “विदारीकन्दां शुमतीवृहत्यौ । काकोलिकाभीरुपुनर्नवे द्बे । शृङ्गाटकं मागधिका वला च चूर्णं सिताढ्यं सितया प्रयोज्यम् ॥ जीर्णे पयः पायसमेव योज्यं करोति पुंसां बलमेवमोजः । स्त्रीणां सहस्रं भजतेऽपि षण्डो मासद्वयेनापि च सेवमानः ॥” इति हारीते चिकित्सास्थाने ४६ अध्यायः ॥ “वाजीकरणमन्विच्छेत् सततं विषयी पुमान् । तुष्टिः पुष्टिरपत्यञ्च गुणवत्तत्र संश्रितम् ॥ अपत्यसन्तानकरं यत् सद्यः संप्रहर्षणम् । वाजीवातिबलो येन यात्यप्रतिहतोऽङ्गनाः ॥ भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते । तद्वाजीकरणं तद्धि देहस्योर्ज्जस्करं परम् ॥ धर्म्म्य यशस्यमायुष्यं लोकद्वयरसायनम् । अनुमोदामहे ब्रह्मचर्य्यमेकान्तनिर्म्मलम् ॥ अल्पसत्त्वस्य तु क्लेशैर्वाध्यमानस्य रागिणः । शरीरक्षयरक्षार्थं वाजीकरणमुच्यते ॥ कल्पस्योदग्रवयसो वाजीकरणसेविनः । सर्व्वेष्वृतुष्वहरहर्व्यवायो न निवार्य्यते ॥ अथ स्निग्धविशुद्धानां निरूहान् सानुवासनान् । घृततैलरसक्षीरशर्कराक्षौद्रसंयुतान् ॥ योगविद्योजयेत् पूर्व्वं क्षीरमांसरसाशिनम् । ततो वाजीकरान् योगान् शुक्रापत्यविवर्द्धनान् ॥ अच्छायः पूतिकुसुमः फलेन रहितो द्रुमः । यथैकश्चैकशाखश्च निरपत्यस्तथानरः ॥ स्खलद्गमनमव्यक्तवचनं धूलिधसरम् । अपि लालाविलमुखं हृदयाह्लादकारकम् ॥ अपत्यं तुल्यता केन दर्शनस्पर्शनादिषु । किंपुनर्यद्यशोधर्म्ममानश्रीकुलवर्द्धनम् ॥ शुद्धकाये यथाशक्ति वृष्य योगान् प्रयोजयेत् । शरेक्षुकुशकाशानां विदार्य्या वीरणस्य च ॥ मूलानि कण्टकार्य्याश्च जीवकर्षभकौ वलाम् । मेदे द्बे द्वे च काकोल्यौ शूर्पपर्ण्यौ शतावरीम् ॥ अश्वगन्धामतिवलामात्मगुप्तां पुनर्नवाम् । वीरां पयस्यां जीबन्तीं ऋद्धिं रास्नां त्रिकण्ट- कम् ॥ मधुकं शालिपर्णीञ्च भागांस्त्रिपलिकान् पृथक् । माषाणामाढकञ्चैतद्द्विद्रोणे साधयेदपाम् ॥ रसेनाढकशेषेण पचेत्तेन घृताढकम् । दत्त्वा विदारीधात्रीक्षुरसानामाढकाढकम् ॥ घृताच्चतुर्गुणं क्षीरं पेष्याणीमानि चावपेत् । वीरां स्वगुप्तां काकोल्यौ यष्ठीं फल्गूनि पिप्प- लीम् ॥ द्राक्षां विदारी खर्ज्जूरं मधुकानि शतावरीम् । तत्सिद्धपूतं चूर्णस्य पृथक् प्रस्थेन योजयेत् ॥ शर्करायास्तुगायाश्च पिप्पल्याः कुडवेन च । मरिचस्य प्रकुञ्चेन पृथगर्द्धपलोन्मितैः ॥ त्वगेलाकेसरैः श्लक्ष्णैः क्षौद्राद्द्विकुडवेन च । पलमात्रं ततः खादेत् प्रत्यहं रसदुग्धभुक् ॥ तेनारोहति वाजीव कुलिङ्ग इव हृष्यति । विदारीपिप्पलीशालिप्रियालेक्षुरकाद्रजः ॥ पृथक् स्वगुप्तामूलाच्च कुडवांशं तथा मधु । तुलार्द्धं शर्कराचूर्णात् प्रस्थार्द्धं नवसर्पिषः ॥ सोऽक्षमात्रमतः खादेद् यस्य रामाशतं गृहे । सात्मगुप्ताफलान् क्षीरे गोधूमान् साधितान् हिमान् ॥ माषान् वा सघृतक्षौद्रान् खादन् गृष्टिपयो- ऽनुपः । जागर्त्ति रात्रिं सकलामखिन्नः खेदयेत् स्त्रियः ॥ वस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान् । यः खादेत् ससितान् गच्छेत् स स्त्रीशतमपूर्व्ववत् ॥ चूर्णं विदार्य्या बहुशः स्वरसेनैव भावितम् । क्षौद्रसर्पिर्युतं लीढ्वा प्रमदाशतमृच्छति ॥” “कृष्णाधात्रीफलरजः स्वरसेन सुभावितम् । शर्करामधुसर्पिर्भिर्लीढ्वा योऽनुपयः पिबेत् ॥ स नरोऽशीतिवर्षोऽपि युवेव परिहृष्यति । कर्षं मधुकचूर्णस्य घृतक्षौद्रसमन्वितम् ॥ पयोऽनुपानं यो लिह्यान्नित्यवेगः स ना भवेत् ॥” “उच्चटाचूर्णमप्येवं शातवर्य्याञ्च योजयेत् ॥ चन्द्रशुभ्रं दधिसरं ससितं षष्टिकौदनम् । पटे सुमार्ज्जितं भुक्त्रा वृद्धोऽपि तरुणायते ॥” “आचरेच्च सकलां रतिचर्य्या कामशास्त्रविहितामनवद्याम् । देशकालबलशक्त्यनुरोधाद्- वैद्यतन्त्रसमयोक्त्यविरुद्धाम् ॥ अभ्यञ्जनोद्वर्त्तनसेकगन्ध- स्रक्पत्रवस्त्राभरणप्रकाराः । गान्धर्व्वकाव्यादिकथा प्रवीणाः समस्वभावा वशगावयस्याः । दीर्घिका स्वभवनान्तनिविष्टा पद्मरेणुमधुमत्तविहङ्गाः । नीलसानुगिरिकूटनितम्बे काननानि पुरकण्ठगतानि ॥ दृष्टिसुखा विविधा तरुजातिः श्रोत्रसुखः कलकोकिलनादः । अङ्गसुखर्त्तुवशेन विभूषा- चित्तसुखः सकलः परिवारः ॥ ताम्बूलमच्छमदिरा कान्ता कान्ता निशा शशाङ्काङ्का । यद्यच्च किञ्चिदिष्टं मनसो वाजीकरं तत्तत् ॥ मधुमुखमिव सोत्पलं प्रियायाः कणरणनापरिवादिनी प्रियेव । कुसुमचयमनोरमा च शय्या किसलयिनी लतिकेव पुष्पिताग्रा ॥ देशे शरीरे च न काचिदर्त्ति- रर्थेषु नाल्पोऽपि मनोविघातः । वाजीकराः सन्निहिताश्च योगाः कामस्य कामं परिपूरयन्ति ॥” इति वाभटे उत्तरस्थाने ४० अध्यायः ॥ तथाच । “वाजीकरणमन्विच्छेत् पुरुषो नित्यमात्मवान् । तदायत्तौ हि धर्म्मार्थौ प्रीतिश्च यश एव च ॥ पुत्त्रस्यायतनं ह्येतद्गुणाश्चैते सुताश्रयाः । वाजीकरणमग्य्रञ्च क्षेत्रं स्त्री वा प्रहर्षिणी ॥ इष्टा ह्येकैकशोऽप्यर्थाः परं प्रीतिकराः स्मृताः । किं पुनः स्त्रीशरीरे ये संघातेन व्यवस्थिताः ॥ सङ्घातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्यते । स्त्र्याश्रयो हीन्द्रियार्थो यः सप्रीतिजननो- ऽधिकः ॥” “चित्रदीपः सरःशुष्कमधातुर्धातुसन्निभः । निष्प जस्तृणपूलीति ज्ञातव्यः पुरुषाकृतिः ॥ अप्रतिष्ठश्च नग्नश्च शून्यश्चैकेन्द्रियश्च ना । मन्तव्यो निष्क्रियश्चैव यस्यापत्यं न विद्यते ॥ बहुमूर्त्तिर्बहुमुखो बहुव्यूहो बहुक्रियः । बहुचक्षुर्बहुज्ञानो बह्वात्मा च बहुप्रजः ॥ मङ्गल्योऽयं प्रशस्तोऽयं धन्योऽयं वीर्य्यवानयम् । बहुशाखोऽयमिति च स्तूयते ना वहुप्रजः ॥ प्रीतिर्ब्बलं सुखं वृत्तिर्विस्तारो विभवः कुलम् । यशोलोकाः सुखोदर्कास्तुष्टिश्चापत्यसंश्रिता ॥ तस्मादपत्यमन्विच्छन् गुणांश्चापत्यसंश्रितान् ॥ वाजीकरणनित्यः स्यादिच्छेत् कामसुखानि च । माषाणामात्मगुप्ताया बीजानामाढकं नवम् ॥ जीवकर्षभकौवीरं मेदामृद्धिं शतावरीम् । मधुकञ्चाश्वगन्धाञ्च साधयेत् कुडवोन्मिताम् ॥ रसे तस्मिन् घृतप्रस्थं गव्यं दशगुणं पयः । विदारीणां रसप्रस्थं प्रस्थमिक्षुरसस्य च ॥ दत्त्वा मृद्वग्निनासाध्यं सिद्धं सर्पिर्निधापयेत् । शर्करायास्तुगाक्षीर्य्याः क्षौद्रस्य च पृथक् पृथक् ॥ भागांश्चतुष्पलांस्तत्र पिप्पल्याश्चावपेत् पलम् । पलं पूर्व्वमतो लीढ्वा ततोऽन्नमुपयोजयेत् ॥ य इच्छेदक्षयं शुक्रं शेफसश्चोत्तमं बलम् ।” इति वाजीकरणं घृतम् ॥ * ॥
“चटकानां सहंसानां दक्षाणां शिखिना- न्तथा । शिशुमारस्य नक्रस्य भिषक् शुक्राणि संहरेत् ॥ गव्यं सर्पिर्वराहस्य कुलिङ्गस्य वसामपि । षष्टिकानाञ्च चूर्णानि चूर्णं गौधूममेव च ॥ एभिः पूपलिकाः कार्य्याः शष्कुल्यो वर्त्तिका स्तथा ॥ पूपाधानाश्च विविधा भक्ष्याश्चान्ये पृथग्विधाः । एषां प्रयोगाद्भक्ष्याणां स्तब्धेनापूर्णरेतसा ॥ शेफसा वाजिवद्याति यावदिच्छन् स्त्रियो नरः ॥” इति वृष्यपूपालिकयोगः ॥ * ॥
“मण्डलैर्जातरूपस्य तस्या एव पयःशृतम् । अपत्यजननं सिद्धं सघृतक्षौद्रशर्करम् ॥” “आर्द्राणि मत्स्यमांसानि भृष्टाश्च शफरीश्च वा । तप्ते सर्पिषि यः खादेत् स गच्छेत् स्त्रीषु न क्षयम् ॥ घृतभृष्टान् रसे छागे रोहितान् फलसाधिते ॥ अनुपीतरसान् सिद्धानपत्यार्थी प्रयोजयेत् ॥” इति गर्भाधानकरो योगः ॥ * ॥
“नर्त्ते वै षोडषाद्वर्षात् सप्तत्याः परतो नच । आयुष्कामो नरः स्त्रीभिः संयोगं कर्त्तुमर्हति ॥ अतिबालो ह्यसम्पूर्णसर्व्वधातुः स्त्रियो व्रजन् । उपतप्येत सहसा तडागमिव काजलम् ॥ शुष्करुक्षं यथाकाष्ठं जन्तुदग्धं विजर्ज्जरम् । स्पृष्टमाशु विशीर्य्येत तथा वृद्धस्त्रियो व्रजन् ॥ जरया चिन्तया शुक्रं व्याधिभिः कर्म्मकर्षणात् । क्षयं गच्छत्यनशनात् स्त्रीणाञ्चातिनिषेवणात् ॥ क्षयाद्भयादतिस्रम्भाच्छोकात् स्त्रीदोषदर्शनात् । नारीणामरसज्ञत्वादभिचारादसेवनात् ॥ तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते । देहसत्त्वबलापेक्षी हर्षः शक्तिश्च हर्षजा ॥” इति चरके चिकित्सितस्थाने द्वितीयेऽध्याये ॥)



Correction: